Tuesday, 14 July 2020

पठतु सुभाषितम्


      जलम्, अन्नम्, सुभाषितम् इति त्रीणि एव पृथिव्याम् अस्यां रत्नानि इति मन्यन्ते विद्वज्जनैः। मूढैस्तु पाषाणखण्डाः रत्नसंज्ञया ज्ञायन्ते। अतः वयं रत्नभूतं सुभाषितम् अधोनिर्दिष्टम् एकं पठामः-
  "समये भोजनं निद्रा, समये स्नानम् आचरेत् ।
   व्यायामं समये कुर्यात्, यमो भीतो गमिष्यति॥"
एतत् सुभाषितं तावत्, श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन उक्तं "युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु" इति श्लोकं ज्ञापयति॥

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...