Friday, 17 July 2020

अखिल-भुवन-न्यायदिन-उत्सवः

World Day for International Justice: International Justice Day ...
      अद्य आङ्ग्लवर्षीय जूलै मासे सप्तदशमं दिनं (17-07- 20) 
भवति। अस्मिन् दिने अर्थात् प्रति जूलै मासे सप्तदशमं दिनं तावत् अखिल-भुवन-न्यायदिन-उत्सवः अनुष्ठीयते। न्यायस्तावत् धर्मः, 
नयः, नीतिः, न्यायिता, ऋजुता, साधुता, न्याय्यता, युक्तता, 
योग्यता, यथार्थता, सत्यता, अपक्षपातः, सर्वसमता, न्यायशिक्षा, योग्यशिक्षा इति पर्यायशब्दैः ज्ञायते। तदधिकृत्य किञ्चित् जानीमः-
   1. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्।
   अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥ इति मुरारिः॥
   2. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥
   आर्जवं हि कुटिलेषु न नीतिः॥ इति भर्तृहरिः॥
   3. नयगुणोपचितामिव भूपतेः सदुपकारफलं श्रियमर्थिनः॥
   इति कालिदासः॥
   4.  चलति नयान्न जिगीषतां हि चेतः॥ इति भारविः॥
   5. आत्मोदयः परग्लानिर्द्वयं नीतिः इतीयती॥ इति माघः॥
    अतः वयं, धर्मे-सत्कार्ये च मतिं, क्रोधनिग्रहं, यथाशक्ति दानं, लोकगतिं ज्ञात्वा अनुष्ठानं, मधुरं-प्रियं-सत्यभाषणं, पात्रं 
ज्ञात्वा स्नेहं, मातृ-पितृ रक्षणं, प्राप्तकालस्य उपयोगं, निन्दितं-
विफलं-कर्म न, जीवरक्षणं, सद्गुणसम्पादनं, ज्ञानिनाम् 
आश्रयणं,  महात्मनां दर्शनं-वचनश्रवणं, ज्ञात्वा पापं न, 
अद्रोहं सर्वभूतेषु च कुर्मः। अनेन अस्माभिः न्यूनात् न्यूनं 
न्यायः परिपाल्यते॥
                       World Day for International Justice or International Justice Day ...

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...