Saturday 29 April 2017

विंशतिशताब्दौ विख्यातवैभवः श्रीवैष्णवसंहिताकर्ता श्रीकृष्णप्रेमीमहाप्रभुः



                                                Image result for images of Krishnapremi and his works

      श्रीवैष्णवसंहिता इतिहासात्मिका कृतिरियं श्रीकृष्णप्रेमीमहाप्रभुना
 रचिता वर्तते। केचन पाश्चात्याः तथा अस्मदीयाः विद्वत्तल्लजाः  भारत- 
राष्ट्रस्य इतिहासानरचयन्।  किन्तु ते सर्वे प्रायशः केवलं शासकानां
सार्वभौमानां तत्तत्सभालङ्कृत-पण्डितमण्डितप्रशस्तिभाजां यशोभूष-
णान्येव व्यलिखन्नतु भगवद्भक्तिपराणां भक्तशिरोमणीनां भागवताग्रेस-
राणां साधूनां महिम्नः। भारतसंस्कृतिः भारतीयमुत हैन्दवम् 
इति कथ्यते। भारतसंस्कृतिः काव्यनाटकग्रन्थादिभिः 
प्रतिपादितास्ति। भारतीयभागवतोत्तमाः साधवः महर्षयः दिव्यसूरयः
अस्माकं भारतं देशं भारतीयां संस्कृतिं च रक्षितवन्तः। एते ते सर्वलोक-
प्रकाशकाः ज्ञानदीपाः। श्रीवैष्णवसंहिता एषां ज्ञानदीपानां सांस्कृतिकजीवनानि प्रकाशयति।
     श्रीकृष्णप्रेमीमहाप्रभुः श्री श्री अण्णा इति प्रेम्णा द्रमिडभाषायां
 आहूयते तच्छिष्यैः। एषः श्रीगोविन्दशतकम्, श्रीराघवशतकम्, रुक्मिणी-
परिणयमहाकाव्यम्, राधिकाविलासचम्पूः वसन्तोत्सवनाटकम्, 
साहित्यसारणी, मीमांसामञ्जरी इत्यादीन् ग्रन्थान् विरचितवन्तः। 
तैस्सह वयमपि अस्मिञ्छताब्दे वसाम इति परमानन्दविषयः।।


                                         Image result for images of Krishnapremi and his works

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...