Saturday, 22 April 2017

श्रीगोदासूक्तिसुधारसः

                     Image result for images of thiruppavai 30 pasuram
मार्गशीर्षमासः धनुर्मासः इति कथ्यते। प्रायशः एषः मासः डिसम्बर् इति आङ्ग्लमासस्य 16 दिनाङ्कादारभ्य जनवरीमासस्य 15 दिनाङ्कपर्यन्तं संभवति। अस्मिन् मासे प्रातः काले ब्राह्मे मुहूर्ते सकलदेवबृन्दैः संस्तूयते भगवान् श्रीमन्नारायणः। मासानां मार्गशीर्षोऽहम् इति श्रीकृष्णसूक्तिमनुस्मरन् बृन्दावनगोपीजनाः श्रीकृष्णमेव पतिं मत्वा कात्यायनीव्रतमाचरितवत्यः। अमुं विषयं मनसि निधाय, पेरियाल्वार् इति विख्यातवैभवस्य दिव्यसूरेः श्रीविष्णुचित्ताख्यस्य भगवन्नारायणभक्ताग्रेसरस्य सुता आण्डाल् नाम्नी श्रीगोदादेवी तिरुप्पावै नोन्बु इति व्रतमाचरितवती। आबाल्यात् श्रीकृष्णमेव स्वस्याः वल्लभं मत्वा, सा तत्परायणा अभवत्।  तस्याः पितृवर्याः श्रीविष्णुचित्तार्याः प्रतिदिनं नन्दवने पुष्पाणि तुलसी-पत्राणि च चित्वा, श्रीधन्वीक्षेत्रनाथाय श्रीरङ्गभूपाय मालां विरचय्य तद्भगवदाराधनमकुर्वननवरतम्। एकस्मिन् दिने, गोदादेवी तां मालां स्वयं कण्ठे निधाय भगवते प्रत्यर्पितवती। अनेनैषा चूडिक्कोडुत्त नाच्चियार् इति ख्यात्या स्तूयते।
एषा तिरुप्पावै इति द्रमिडाम्नायप्रबन्धं विरचय्य तिरुप्पावै इति व्रतमपि अनुष्टीय सखीभिः सह, भगवन्तं श्रीरङ्गभूपं सन्तोषय्य संस्तूय च अन्ते भगवता सह ऐक्याऽभवत्। श्रीमत्यै गोदायै रचितां त्रिंशत्पद्यात्मिकां तां द्रमिडाम्नायसूक्तिं संप्रति क्रमशः संस्कृतभाषायां सारसङ्ग्रहरूपेण अनूद्य दासोऽहं श्रीमुष्णं, पुराणं, वङ्गीपुरं, न्यायशिरोमणिः डा. व. सौम्यनारायणः, चेन्नैमण्डलस्थ- डि.जि.वैष्णवकलाशालायाः संस्कृतविभागाध्यक्षः विदुषां प्रीणने भगवत्प्रीत्यर्थं च सादरं समर्पयामि।।
 
मासे वै मार्गशीर्षाख्ये मापतेर्महतीं कृपाम्।
प्राप्तुकामाः हि गोप्यस्ताः आचरन्नु व्रतं शुभम्।।    1   ।।
कृत्यानां चैव करणम् अकृत्यानाञ्च वर्जनम्।
उज्जीवनार्थं षण्मार्गं विधाय व्रतमाचरन्।।         2    ।।
अतिवृष्ट्यानतिवृष्ट्या ह्यशुभं नैव संभवेत् ।
समग्रदेशे गोवृद्धिः धनधान्यमयीभवेत्।।           3    ।।
मार्गशीर्षव्रतार्थं हि माधवस्य प्रियात्मनाम्।
कालमेघः कृपारूपी वर्षं वर्षयतु स्वयम्।।          4   ।।
मायिनं मधुरानाथं यामुनेयं महानिधिम्।
स्मृत्वा संपूज्य सङ्कीर्त्य शुद्धा भूत्वाऽऽप्नुयात् शुभम्।।  5  ।।
तार्क्ष्यध्वजगृहेशस्य शङ्कनादं मुनेर्जपम्।
नाश्रृणोः किन्नु बाले त्वम् उत्तिष्ठ व्रतमाचर।।        6    ।।
भरद्वाजरुतं तारं गोपीनां दधिमन्थनम्।
नाश्रृणोः किञ्च पैशाचे केशवं चैहि कीर्तय।।       7   ।।
प्रातर्गावः चारयद्भ्यः गोपेभ्यः पूर्वगाः वयम्।
कृष्णतृष्णासमेते त्वं बकारिं चैहि भावय।।     8  ।।
भागिनेये मातुलानि! मणिद्वारमपावृणु।
त्वत्सुता बधिरा मूका किमुत्थापय संप्रति।।    9   ।।
तुलसीगन्धचूडाङ्गं स्तोतुमायाहि सांप्रतम्।
जितकुम्भश्रुतेर्निद्रां त्यक्त्वा मातः शुभे त्वर।।    10   ।।
स्वर्णलते शुभाङ्गे च सखीजनास्तवाङ्गने।
समागतास्समुत्तिष्ठ शीघ्रमायाहि माऽऽलप।।    11    ।।
वात्सल्यभरितैर्गोभिः दुग्धैः क्लिन्नधनि स्वसे।
मनोभिरामं मान्यार्थं मा गाः निद्रां त्वर प्रिये।।   12   ।।
विहङ्गासुरविध्वंसं कीर्तनाय मितास्स्त्रियः।
विश्लेषं किं विना निद्रां अकरोः कुड्मलेक्षणे।।    13   ।।
बाह्याङ्गनेषु वापीषु कल्हाराः फुल्लतामिताः।
शङ्कचक्रधरं देवं कीर्तयत्वं गताः बुधाः।।        14     ।।
कीरके किमु निद्रासि पुरा यामि न निन्द्यतां।
दुष्टाऽभवं त्वहं तावत् मायिनं मानय त्वर।।      15   ।।
नन्दगोपगृहद्वारपाल द्वारमपावृणु।
मणिवर्णसुबोधार्थं मनोद्वारमपावृणु।।     16    ।।
वस्त्रपानान्नसंधातः यशोदे नन्दगोप हे।
त्रिविक्रम प्रलंबघ्न निद्रां त्यजत सांप्रतम्।।     17   ।।
मत्तवारणघर्षांसवधूनीले सुकेशिनि।
माधवीगुल्मविहगः रौति द्वारमपावृणु।।     18   ।।
वाल्लभीपञ्चशयनसुप्तनीलोन्नतस्तन।
भण कज्जलसन्नेत्रि निद्रायाः विरमस्व ते।।     19   ।।
देवक्लेशापहारिन् त्वं शौरे शूर विबोधतु।
ताम्राभमृदुवक्षोजे दर्पणैस्तं विबोधय।।      20    ।।
भूरिभाजनगव्यात्मसुततल्लज जागृहि।
जगज्योते हि शत्रुघ्न त्वत्पादशरणं व्रजे।।       21     ।।
भग्नाभिमानभूपाभाः वयं त्वां शरणं वृताः।
सोमसूर्यनिभाक्षिन् ते ह्यपाङ्गैर्दुरितं हर।।     22    ।।
दुर्दिनेषु गुहान्तस्स्थमृगराजनिभप्रभो ।
अतसीपुष्पनेत्र त्वं हरि पीठे विराजय।।    23      ।।
त्रिविक्रम श्रिया लङ्का शकटसुरभञ्जन ।
वत्सारे गिरिधारिन् त्वं कृपया रक्ष नो व्रजान् ।।     24  ।।  
कस्याचिद्गर्भसंभूत कयाचित्पोषित प्रभो।
कंसारे पूजयामस्त्वां त्वया त्राताः शुभैर्वृताः।।      25   ।।
मणिवर्ण महामायिन् ज्येष्ठानां करणं श्रुणु।
शङ्खवाद्यध्वजादीन्नो वटशायिन् प्रयच्छ तान्।।     26   ।।
हिताहितमनस्क त्वत्कीर्तने भूषणादिकान्।
धृत्वा क्षीरान्नपानेन संतुष्टाः समितास्सदा।।      27   ।।
गोचारणेन संतुष्टाः बालिशाः प्राप्य वोऽनघ।
किमन्यत्त्वां विहायास्मद्दपराधान् क्षमस्व भोः ।।    28   ।।
प्रातस्समेत्य संसेव्य त्वत्पादकमलं गताः।
न जहि स्याम किङ्कर्यः त्वद्भक्ताः सप्तजन्मसु।।    29   ।।
सुक्षीरार्णवमन्थानमाधवं केशवं विभुम्।
विष्णुचित्तसुतासूक्त्या यो भजेत्स शुभं त्वियात्।।     30   ।।

समापनम्

कृष्णाय प्रतिबोधितां भगवतीश्रीगोदया स्वयम्
आर्येण ग्रथितां सुनाथमुनिना दिव्यप्रबन्धान्तराम्।
वेदान्तामृतवर्षिणीं रसवतीं त्रिंशत्सुपद्यात्मिकां
अम्ब त्वामनुसन्दधामि भवतीं भक्ताघसंहारिणीम्।।

        श्रीरस्तु    शुभमस्तु    शिवमस्तु 

                Image result for images of thiruppavai 30 pasuram

No comments:

Post a Comment

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...