Monday, 21 September 2020

कल्पः Part VII

 

शुल्वसूत्रं वेदाङ्गान्तर्गतकल्पसूत्रस्यान्यतम् अङ्गमस्ति। शुल्वसूत्रं भारतवर्षे रेखागणितस्य पुरातनेतिहासस्य ज्ञानाय नितान्तमावश्यकमस्ति। वैदिककर्मकाण्डमेव शुल्वसूत्रस्य मुख्यविषयोऽस्ति। शुल्वशब्दस्य रज्जुः'इत्यर्थो भवति। अतः          रज्वा मापितवेद्या रचना' शुल्वसूत्रस्य प्रतिपाद्यविषयोऽस्ति ।सैद्धान्तिकदृष्ट्या प्रत्येकस्याः वैदिकशाखायाः स्वं विशिष्टं शुल्वसूत्रं भवति, किञ्च व्यवहारत एवं न भवति । कर्मकाण्डेन सह मुख्यतः सम्बद्धत्वेन यजुर्वेदस्य शाखायामेव शुल्वसूत्राण्युपलब्धानि भवन्ति अर्थाति यजुर्वेदस्यैवानेकशाखायां शुल्वसूत्राणामुपलब्धिः दृश्यते शुक्लयजुर्वेदसम्बद्धं कात्यायनशुल्बसूत्रमेकमेवास्ति, किञ्च कृष्ण-यजुर्वेदसम्बद्धानि षट् शुल्वसूत्राणि लभन्ते। तद्यथा बौधायन-आपस्तम्ब-मानव-मैत्रायणीय-वाराह-वावुलशुल्वसूत्राणि चेति एतदतिरिक्तःआपस्तम्बशुल्वसूत्रस्यटीकायां करविन्दस्वामिना मशकशुल्वसूत्रस्य, हिरण्यकेशीशुल्वसूत्रस्य चोल्लेखः कृतः । आपस्तम्बशुल्वसूत्रे हिरण्यकेशीशुल्वसूत्रादेकमुद्धरणमप्युपलभ्यते ॥

                                                    .....अनुवर्तते....,

No comments:

Post a Comment

SEVEN FASCINATING TOPICS - 5 MEGHADUTA

      MEGHADUTA: THE CLOUD MESSENGER POETRY   Meghadūta (“The Cloud Messenger”) is one of the most celebrated lyrical poems of Kālidāsa ,...