Wednesday, 16 September 2020

कल्पः Part II

 

    "कल्प्यते-समर्थ्यते यागप्रयोगोऽत्र  इति कल्पः", "कल्पो वेद-विहितानां कर्मणामानुपूर्व्येण कल्पना शास्त्रम्"  इत्यवगन्तव्यानि कल्पसूत्राणि। तानि श्रौतसूत्र-गृह्यसूत्र-धर्मसूत्र-शुल्बसूत्रादि भेदैः चतुर्विधानि भवन्ति। वैदिकसंहितासु उक्तानां यज्ञादि-विषयकानां विधानानि तद्विवरणानि श्रौतसूत्रेषु व्याख्यातानि। गृहेषु मानवानां जन्मारभ्य मृत्युपर्यन्तं समस्तकर्तव्यकर्माणाम् अनुष्ठानानि (पूर्व-अपरक्रियाकलापाः) गृह्यसूत्रेषु विस्तृतानि भवन्ति। विभिन्न पारमार्थिक, सामाजिक, राजनीतिक कर्तव्यानि, विविधवर्णानां तथा विविधाश्रमीणां कर्तव्यानि, सामान्यतः मानवानां जन्मारभ्य विवाह तथा उत्तराधिकारादि विवरणानि धर्मसूत्रेषु दृश्यन्ते। "ज्यामिति" आदि गणितात्मकविज्ञानानां तत्त्वानि शुल्बसूत्रेषु लभ्यन्ते॥

                                                    ..... अनुवर्तते.......,

No comments:

Post a Comment

BUTTERMILK BISCUIT DAY

Today is Buttermilk Biscuit Day is being celebrated in some parts of the world. Butter and Buttermilk in Sanskrit Literature Butter, butterm...