वेदस्य षडङ्गेषु द्वितीयं भवति व्याकरणम् । "मुखं व्याकरणं प्रोक्तम्" इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य मुखरूपेण भवति व्याकरणम्। "रक्षा-ऊहा-आगम-लघु-असन्देहाः व्याकरणप्रयोज-नम्" इति कात्यायनमहर्षेः वचनं व्याकरणप्रयोजनमधिकृत्य ज्ञापयति। वेदाध्ययनाय वर्ण-उच्चारणसौष्ठवाय शिक्षायाः अध्ययनादनन्तरं वर्ण उत अक्षरसमूहात्मकस्य पदस्य ज्ञानं संपादनीयं मुख्यं भवति। तत्पदं कीदृशं?,तत्पदस्य प्रकृतिः किं?, विकृत्यपरनाम्न्याः प्रत्ययम् किम् ? इति व्याकरणं बोधयति। पदज्ञापनेन व्याकरणं पदशास्त्रमित्यपि कथ्यते॥
..... अनुवर्तते.......,
No comments:
Post a Comment