Saturday, 19 September 2020

कल्पः Part V

 

    आश्वलायनगृह्यसूत्रम्, शाङ्खायनगृह्यसूत्रमिति ऋग्वेदीय-गृह्यसूत्रद्वयम्। सामवेदीयं खादिर-गोभिल इति गृह्यसूत्रद्वयमस्ति। कृष्णयजुर्वेदीयानि बौधायन, आपस्तम्ब, सत्याषाढ, मानव, काठक इति पञ्चगृह्यसूत्राणि। शुक्लयजुर्वेदीयं पारस्करीयगृह्यसूत्रम् । अथर्ववेदीयं कौशिकगृह्यसूत्रम्। एतेषु सर्वेष्वपि गृह्यसूत्रेषु श्रौतसूत्रोक्त (14) चतुर्दशश्रौतयज्ञाः,(7) सप्त पाकयज्ञाः, (5) पञ्चमहायज्ञाः तथा तत्तद्वेदीयगृह्यसूत्रोक्ताः गर्भाधान, पुंसवन (पुत्रजन्मानुष्ठान), गर्भवतीनां स्त्रीणां केशविन्यासात्मकं सीमन्तोन्नयनं, जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन, चूडाकरण, उपनयन, वेदाध्ययनसमये अनुष्ठेय महानाम्नीव्रत, महाव्रत, उपनिषद्व्रत, गोदानव्रत, समावर्तन, विवाह, अन्त्येष्टि इत्यादि (16) षोडश संस्काराः आहत्य (42) द्विचत्वारिंशत् संस्काराः तत्तदवसरानुसन्दर्भे विवर्णिताः भवन्ति॥

                                    ..... अनुवर्तते.......,

No comments:

Post a Comment

SEVEN FASCINATING TOPICS - 5 MEGHADUTA

      MEGHADUTA: THE CLOUD MESSENGER POETRY   Meghadūta (“The Cloud Messenger”) is one of the most celebrated lyrical poems of Kālidāsa ,...