ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्। सारस्वतं चापिशलं काश्यपं पाणिनीयकम्॥ इति श्लोकेन व्याकरणानि नवविधानि इति ज्ञायते। अपि तु मुग्धबोधे - इन्द्र-चन्द्र-काशकृत्स्नापिशली-शाकटायनाः। पाणिन्यमरजैनेन्द्राः जयन्त्यष्टा हि शाब्दिकाः॥ इति वोपदेवस्य श्लोकेन वैयाकरणाचार्याः अष्ट इति च ज्ञायते। इतोऽपि, वोपदेव-कातन्त्र-सौपद्म इति नामभिः व्याकरणानि चोच्यन्ते। एवं व्याकरणानि अनेकान्यपि तेषु पाणिनीयव्याकरणमेव सर्वोत्कृष्ठं तथा सुगममिति च विदितमेषां समेषाम्॥
..... अनुवर्तते.......,
No comments:
Post a Comment