वेदस्य षडङ्गेषु तृतीयं भवति छन्दः शास्त्रम् । " छन्दः पादौ तु वेदस्य " अर्थात् वेदरूपस्य पुरुषस्य पादद्वयात्मकं भवति छन्दः। छन्दहीनः पुरुषः पङ्गुः भवति। अतः पङ्गुदोषात् वेदः अस्माभिः रक्षणीयः। वेदमन्त्राणामुच्चारणार्थं छन्दसां ज्ञानमावश्यकम्। “यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्ते वा पात्यते वा पापीयान् भवति” इति महर्षिकात्यायनवचनं वेदमन्त्राणामुच्चारणं छन्दसां ज्ञानं विना दोषावहं भवतीति द्रढयति॥ ..... अनुवर्तते.......,
No comments:
Post a Comment