Friday, 7 August 2020

को नाम वेदः


     वेदस्तावत् श्रवणमाध्यमत्वात् श्रुतिः इति, आम्नायः इति, आगमः इति च आह्वयते। येन केनापि न लिखितत्वात् वेदः अपौरुषेयः इति    च कथ्यते॥

वेदोऽखिलो धर्ममूलम्,
यस्य निःश्वसितं वेदाः,
वेदो नारायणः साक्षात्।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।
एवं  विदन्ति  वेदेन  तस्माद्वेदस्य  वेदता॥
"देवपितृमनुष्याणां वेदःचक्षुः सनातन"। 
"मन्त्रब्राह्मणयोर्वेदनामधेयम्" इति श्रूयते।
अनन्ता वै वेदाः,
अनादिनिधना नित्याः वागुत्सृष्टा स्वयंभुवा।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः॥
श्रुतिः स्त्री वेद आम्नायस्त्रयी,
               स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी,                    
           चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।                     
             भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति॥
                    नैव वेदाः प्लीयन्ते महाप्रलयेऽपि।

    महाप्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः।

      एवमुपरिनिर्दिष्टैः वाक्यैः वेदानां तत्त्वं संयक् ज्ञायते। इतोऽपि "इष्टप्राप्तये अनिष्टपरिहाराय च अलौकिकोपायं यो ग्रन्थः वेदयति सः वेदः" इति "वेदो नाम वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षाः अनेनेति व्युत्पत्त्या चतुर्वर्गज्ञानसाधनभूतो ग्रन्थ-विशेषः" इति सुगमः। किं बहुणा, "शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिकसुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यो प्रमाणशब्दस्तत्त्वं वेदत्वम् " इति वेदार्थपारिजात इति ग्रन्थे आचार्यचरणाः स्वामिनः श्रीकरपात्रमहाराजानां वेदभाष्यकाराः वेदशब्दस्य लक्षणात्मकं तात्पर्यार्थं अनुगृहीतवन्तः॥  

      वेदमन्त्रान् ये दृष्ट्वा लोकोपकारार्थं ये प्रकटितवन्तः ते मन्त्रदृष्टारः इति सम्मान्यन्ते। मन्त्रान् सङ्कलय्य सद्रूपेण सज्जी-कृतत्वात् तत् सङ्कलनं संहिता इति उच्यते। देवताः उद्दिश्य द्रव्यत्यागरूपेण यज्ञेन तासां देवतानां प्रीणनार्थं वेदमन्त्राः भवन्ति।

                                                ..... अनुवर्तते.......,


Thursday, 6 August 2020

संस्कृतभाषायाः वैदिककालः

        

        संस्कृतभाषा तावत् तद्गत-नानाविध-ग्रन्थ-समुदाय-स्वभाव-विशेषानुरोधेन वैदिकी लौकिकीति द्वेधा विभज्यते इति पूर्वं अपश्याम। भारतीय-सारस्वतसंबन्धी चरित्रकालः वैदिककालः लौकिककालः इत्युभयोः आद्यः क्रिस्तवाब्दारम्भात् बहुपूर्वमेव पञ्चशतोत्तर-सहस्रवत्सरीतः समारभ्य तत्रैव द्वितीयशतकाब्द-पर्यन्तं व्यापृतः इति (1500 – 200 ) विदुषां सम्मतिः। वैदिक-कालस्य अन्तिमभागादनन्तरं लौकिककालस्य स्थितिरिति तेषां सर्वसम्मतनिर्णयः॥
      तत्र वैदिक्यां वेदाः वेदाङ्गानि भागं लभन्ते। श्रीमद्भागवतं
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भूरिव शुश्रुम॥
(6-1-40) इति वदति। वेदशब्दस्तावत् ज्ञानार्थबोधकः। तत्र  

①अदादिगणीय विद ज्ञाने इति धातोः करणे घञ् प्रत्यययुक्तेन निष्पन्नः। अर्थात्  वेत्ति- जानाति धर्मादिपुरुषार्थचतुष्टयोपायान् अनेन इति वेदः।

② दिवादिगण विद सत्तायां भावे घञ् प्रत्यययुक्तेन वेदः इति।③रुधादिगण विद विचारणे करणार्थे घञ् प्रत्यययुक्तेन विन्दे - विचारयति सृष्ठ्यादि प्रक्रियामनेन इति वेदः,

④तुदादिगण विदॢ लाभे इति धातोः करणार्थे घञ् प्रत्यययुक्तेन विन्दते-लभते धर्मादिपुरुषार्थान् अनेन इति वेदः,
⑤चुरादिगण विद चेतनाख्याननिवासेषु इति धातोः करणार्थे घञ् प्रत्यययुक्तेन वेदयति-सृष्ट्यादि पूर्वकल्पानुसारेण सर्वेषां प्राणिनां कर्म, तेषां नाम, आख्यानानि तथा निवासयोग्यस्थानानि अधिकृत्य अस्मभ्यं सूचयति इति वेदः इति पञ्चधा वेदार्थःअस्माभिः ज्ञायते॥

                                                ..... अनुवर्तते.......,


Wednesday, 5 August 2020

संस्कृतवाङ्मयम् Part V

      अस्माकं भारतदेशनाम्नी जन्मभूमिः विविधविषयसर्वस्व-भूतया संस्कृतभाषया पोषिता, संवर्धिता विरराज, विराजते तथा   विराजिष्यते च। अस्यां हि भूमौ, बहुकालात्पूर्वमेव, संस्कृतभाषया विरचिताः ग्रन्थाः प्रथमं तालपत्रात्मकाः तदुपरि तथा अधश्च फलकखण्डाभ्यां च आच्छाद्य, यासां रन्ध्रयुक्तं पार्श्व-कोटि-द्वयमपि  सूत्रेण आबध्यन्ते। क्वचित् लोहितैः पट्टवस्त्रैश्च परिवेष्ट्यन्ते। तथाविधाः ग्रन्थाः संप्रत्यपि देवालय, सन्न्यासीनां मठ,विद्यालय, राजभवनादि-ग्रन्थागारेषु, विशेषतः केषुचिद्गृहेषु च परिरक्ष्यन्ते।॥

      संस्कृतभाषा तावत् तद्गत-नानाविध-ग्रन्थ-समुदाय-स्वभाव-विशेषानुरोधेन वैदिकी लौकिकीति द्वेधा विभज्यते।  तत्र वैदिक्यां   वेदाः वेदाङ्गानि चेति तथा लौकिक्यां इतिहासपुराणानि, महा-काव्यानि (पद्यम्), खण्डकाव्येषु शृङ्गारकाव्यानि, स्तोत्रकाव्यानि, नीतिकाव्यानि, कदम्ब-बिरुद-प्रबन्धाः, महा-काव्यानि (गद्यम्),    चम्पूः, बृहत्कथा तथा तस्याः पाठभेदाः, पशु-पक्षिग्रन्थाः, नाटकानि  तेषां प्रमुखानि दशविधानि, चरित-काव्यानि, साहित्य-शास्त्रम्, व्याकरणम्, छन्दःशास्त्रम् (वृत्तानि), उपवेदेषु आयुर्वेदः, गान्धर्ववेदः, धनुर्वेदः, अर्थशास्त्रम्, ज्योतिषम्, वैज्ञानिकशास्त्राणि, धर्मशास्त्रम्, शिल्पशास्त्रम् उत स्थापत्यवेदः, चित्रकलाः, दर्शनानि तथा तेषु चार्वाकीयम्, बौद्धधर्मः, जैनधर्मः, षड्दर्शनानि, लेखन-लिपयः, शिलालेखाः, ताम्रपट्टाः, हस्तलेखम्, लेख्यम्, तालपत्रादि लेखनोपकरणानि, तद्रक्षणम्, लेखनस्पष्टी-करणम्, मूलग्रन्थः,   पाठभेदाः, प्रकटीकरण-शोधन-प्रकाशनम्, प्रकटीकरण-शोधन-प्रकाशनेषु नवीनपारिभाषिकविज्ञानम् इत्यादीनि निर्दिश्यन्ते॥

                                               ..... अनुवर्तते.......,


Tuesday, 4 August 2020

संस्कृतवाङ्मयम् Part IV

      संस्कृतभाषायाः साहित्यसागरे बहूणि अमूल्यानि रत्नानि उपलभ्यन्ते। अलङ्कार-गुण-रीति-ध्वनि-रस-वक्रोक्ति-औचित्य संप्रदायाः संस्कृतभाषायाः तथा संस्कृतसाहित्यस्य च औन्नत्यं,     महत्त्वं, प्रामुख्यं च प्रकटीकुर्वन्ति।॥

      भास-कालिदास-सुबन्धु-बाण-भारवि-माघ-श्रीहर्ष-कुमारदास-भवभूति-भट्टि-भर्तृहरि-त्रिविक्रमभट्ट-अनन्तभट्ट-राजानकसुन्दर-पाण्ड्य-राजानकमहेन्द्रवर्म-राजानकहर्षवर्धन-मुरारि-शूद्रक-भोज-राज-विशाखदत्त-भरत-भामह-वामन-दण्डी-उद्भट-वाग्भट-मम्मट-आनन्दवर्धन-क्षेमेन्द्र-जयदेव-राजशेखर-अभिनवगुप्त-शङ्कुक-सिंहभूपाल-विश्वनाथ-जगन्नाथ-विद्यानाथ-कल्हण-बिल्हण-जल्हण-श्रीमदानन्दतीर्थ-श्रीमदादिशङ्कर-श्रीमद्रामानुज-श्रीवत्साङ्कमिश्र-श्रीमद्वेदान्तदेशिक-वेङ्कटाध्वरि-श्रीमधुसूदनसरस्वती-श्रीमद्वल्लभाचार्य-श्रीमदप्पय्यदीक्षित-कृष्णमिश्र-नीलकण्ठदीक्षित-चतुरदामोदर-पुरन्दरदास-अन्नमय्य-त्यागराज-मुद्दुस्वामिदीक्षिताः इत्यादयः विविधसाहित्यमार्गेषु संस्कृतवाङ्मयप्रचारकाः महाकवयः प्रबन्धारः निबन्धारः संस्कृतसारस्वतसौरभं वितन्वन्ति स्म॥

      "महाभाष्यं वा पठनीयं महाराज्यं वा शासनीयम्" इति न्यायानुसारम् अस्माभिः साधारणमानवैः महाराज्यं किमपि न शासितुमर्हम् इत्यपि महाभाष्यादिग्रन्थरत्नानि अस्माभिः सर्वैः पठितुं शक्यते एव इत्यत्र कोऽपि न सन्देहः। अतः एतादृशं माहात्म्ययुक्तं भाषासु मुख्यं संस्कृतम् अस्माभिः सदा श्रवणीयम्, यथाकथञ्चित् लेखनीयम्, यथाशक्ति भाषणीयम् अथवा वदनीयं, मुख्यतया पठनीयमेव॥

      एवं वयं एतान् विषयान् सर्वान् क्रमशः अर्थात् वेदात् आरभ्य एतावत् आधुनिककालपर्यन्तं विलसितं, विकासितं, विहारितं संस्कृतभाषायाः स्वरूपं तदा तदा जानीमः॥

                                                      ..... -अनुवर्तते......., 

Monday, 3 August 2020

संस्कृतवाङ्मयम् Part III

         अस्माकं भारतदेशस् राष्ट्रचिह्नानि संस्कृतवाक्यैरेव युक्तानि सन्ति। सर्वकारेषु दलेषु सत्यमेव जयते, AIIMS-संस्थायां शरीरमाद्यं खलु धर्मसाधनम्, दूरभाषाविभागे अहर्निशं सेवामहे, भारतीय-जीव-भीम-निगमे योगक्षेमं वहाम्यहम्, इत्यादयः जीवनोपयोगानि वाक्यानि अङ्कितानि भवन्ति॥

      राजनीतिक, आर्थिक, सामाजिक, धार्मिक इत्यादि सकल-विधस्तरेषु संस्कृतभाषा देदीप्यमाना विलसति। कौटिल्य इति   विष्णुगुप्त इति अपरनाम्नः चाणक्यस्य अर्थशास्त्रं महत्तया अधुनापि अत्यन्तमुपकारात्मकं भवति। किं बहुणा विना संस्कृतमं भारत-     देशस्य संस्कृतिरेव नास्ति॥

      दण्डी नाम महाकविः स्वकीये काव्यादर्शे नामके अलङ्कारलक्षणग्रन्थे, संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति संस्कृतभाषायाः दैविकं तथा आर्षिकं चिन्तनं -उक्त्वा तदनन्तरं,    इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।                                      यदि शब्दाह्वयं ज्योतिः आसंसारं न दीप्यते॥

इति संस्कृतभाषायाः शब्दाः एव ज्योतिः भूत्वा एतत् लोकत्रयं प्रकाशयति इति वदति॥
                                        ......अनुवर्तते..,
                       

Sunday, 2 August 2020

संस्कृतवाङ्मयम् - Part II

   एतानि उपरि (पूर्वं) सूचितानि इतिहासवचनानि सर्वाणि मानवान् उत्तममार्गं प्राप्तुं प्रणुदन्ति। विना संस्कृतभाषाप्रभावेन न किञ्चिदपि शास्त्रं वा ज्ञानं वा द्रष्टुं शक्यते। वैद्यशास्त्रे चरकसंहिता सकलदेशपण्डितैः अतीव प्रस्तूयते। भरतमुनेः नाट्यशास्त्रं गीत, वाद्य, नृत्यकलाकाराणां मार्गदर्शि भवति। संस्कृतगणितशास्त्रज्ञस्य आर्यभट्टस्य O इति पूज्यमिति संख्यावाचकं सर्वगणितशास्त्रज्ञानां कृते ज्ञानधनकोषभूतमस्ति। सङ्गणकशास्त्रे (Computer Science) पाणिनिमहर्षिणा कृता अष्टाध्यायी अविनाभावभूता अस्ति॥

      संस्कृतसाहित्येषु बहूणि महाकाव्यानि असंख्यकानि सन्ति। तत्र नगराणि, समुद्राः, पर्वताः, चन्द्रोदयः, सूर्योदयः, षड्विध-ऋतुवर्णनानि, शत्रूणां निग्रहः, राज्यपरिपालन आलोचना, राजपुत्रजन्म, विवाहः इत्यादयः संयक् मधुरतया वर्णिताः विराजन्ते। मानो हि महतां धनम्, वसुधैककुडुम्बकम्, हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा, एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः, हितं मनोहारि च दुर्लभं वचः, शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् इत्यादीनि नीतिबोधकानि वचनानि अतीव प्रसिद्धानि॥

                                                         ..... -अनुवर्तते.......,

Saturday, 1 August 2020

संस्कृतवाङ्मयम्

    

किमर्थं संस्कृतपठनम्? आवश्यकं वा ? इति किञ्चित् आलोडयामः।

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।

तत्रापि मधुरं काव्यं  तस्मादपि  सुभाषितम्॥

इति नीतिश्लोकः संस्कृतभाषायाः औन्नत्यं स्पष्टतया वदति।  एषा भाषा न केवलं देवभाषा, अपि तु मनुष्याणां भाषा च। किं बहुणा पामर जनानामपि भाषा इत्यपि सत्यमेव इति पतञ्जलिमहर्षिः स्वकीये महाभाष्ये निर्दिशति। संस्कृतभाषा इत्युक्ते ज्ञानविज्ञान-सर्वस्वभूता इति स्मरणम् आगच्छति। ऋक्-साम-यजुस्-अथर्ववेदाः चत्वारः,  रामायणम्-महाभारतम् इति इतिहासद्वयम् इत्यादयः अस्याः भाषायाः मूलभूताः माहात्म्यप्रदर्शकाः भवन्ति। सत्यं वद, धर्मं चर, मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव, सत्यमेव जयते, वाचं वदत भद्रया, एकः स्वादु न भुञ्जीथाः, धर्मान्न प्रमदितव्यम्, स्वाध्यायान्न प्रमदितव्यम्, देवपितृकार्याभ्यां न प्रमदितव्यम् इत्यादीनि अनेकसाधुवचनानि वेदाः बोधयन्ति। कुम्भकर्णो वा विभीषणो वा यदि वा रावणः स्वयम्, सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतत् व्रतं मम, रामो द्विर्नाभि भाषते इति भगवतो श्रीरामस्य वचनं, पापानां वा शुभानां वा......कार्यं करुणमार्येण..... इति सीतायाः वचनम् इत्यादीनि रामायणं अस्मभ्यं  सूचयन्ति। परोपकारः पुण्याय पापाय परपीडनम्, अहिंसैका सुखावहा, षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता। निद्रा तन्द्री भयं क्रोधः आलस्यं दीर्घसूत्रता इत्यादीनि विदुरमुखनीति वचनानि, एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः। यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा, शृणु पापभयापहम् इत्यादीनि श्रीविष्णुसहस्रनामरूपेण भीष्ममुखनयवचनानि, आत्मा तावत् न हन्यते हन्यमाने शरीरे, योगः कर्मसु कौशलम्, कर्मण्येवाधिकारस्ते मा फलेषु कदाचन, स्वधर्मे नियतं श्रेयः, न हि ज्ञानेन सदृशं पवित्रमिह विद्यते, न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति, यत्करोषि.....सर्वं तत्कुरुष्व मदर्पणम्, अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इत्यादीनि श्रीमतो भगवतः श्रीकृष्णमुखादागत नयवचनानि महाभारतात्मकानि मानवान्  नयमार्गे नयन्ति।

                                                      -अनुवर्तते....

THE BEST PLACE TO START LEARNING SANSKRIT - FROM ABSOLUTE ZERO

  Subtitle: You don't need to be a scholar, a pandit's son, or a Sanskrit prodigy. You just need to know where to begin.   I rem...