कृपां कुरु जगन्मातः मामेवं हततेजसम् I
गुरुपाशात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् II 1 II
ज्ञानं देहि स्मृतिं देहि शक्तिं शिष्यप्रबोधिनीम् I
ग्रन्थकर्तृत्वशक्तिं च सुशिष्यम् सुप्रतिष्ठितम् II 2 II
त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः I
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः II 3 II
जडीभूतः सहस्रास्यः पञ्चवक्त्रचतुर्मुख:I
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः II 4 II
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः I
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः II 5 II
Sri Sarasvati Studti is composed by yajnavalkya set in the metre anushtubh.
ReplyDelete