मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा
मेरोः चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः ॥११॥
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधा-श्चत्वारः
पादपप्रवराः पर्वत
केतवइवाधिसहस्रयोजनोन्नाहास्तावद्विटप-विततयः शतयोजन
परिणाहाः ॥१२॥
ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन
उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥१३॥
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं
वैभ्राजकं सर्वतोभद्रमिति ॥१४॥
येष्वमरपरिवृढाः सह सुरललनाललाम-यूथपतय
उपदेवगणै
रुपगीयमानमहिमानः किल विहरन्ति ॥१५॥
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेव-चूतशिरसो
गिरिशिखरस्थूलानि फला-न्यमृतकल्पानि पतन्ति ॥१६॥
तेषां शीर्यमाणानामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेन-अरुणोदा
नाम नदी मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृत-
मुपप्लावयति ॥१७॥
यदुपजोषणाद्भवान्या अनुचरीणां
पुण्यजन-वधूनामवयवस्पर्श
सुगन्धवातो दशयोजनं समन्तादनुवासयति ॥१८॥
एवं
जम्बूफलानामत्युच्चनिपातविशीर्णाना-मनस्थिप्रायाणामिभ
कायनिभानां रसेन जम्बू नाम नदी
मेरुमन्दरशिखरादयुत-
योजनादवनितले निपतन्ती दक्षिणेनात्मानं
यावदिलावृत
मुपस्यन्दयति ॥१९॥
तावदुभयोरपि रोधसोर्या मृत्तिका
तद्रसेना-नुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं
भवति
॥२०॥
यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटि
सूत्राद्याभरणरूपेण खलु धारयन्ति ॥२१॥
यस्तु महाकदम्बः सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो
विनिःसृताः
पञ्चायामपरिणाहाः पञ्च मधुधाराः
सुपार्श्वशिखरात्पतन्त्योऽपरेणा-
त्मानमिलावृतमनुमोदयन्ति ॥२२॥
या ह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छत
योजनमनुवासयति ॥२३॥
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस्तस्य
स्कन्धेभ्यो
नीचीनाः
पयोदधि-मधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादयः
सर्व एव कामदुघा नदाः कुमुदाग्रात्पतन्तमुत्तरेणेलावृतमुपयो
जयन्ति ॥२४॥
यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेद
दौर्गन्ध्यजराऽऽमय-मृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा
भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥२५॥
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिर-पतङ्गरुचकनिषध
शिनीवासकपिलशङ्ख-वैदूर्यजारुधिहंसऋषभनागकालञ्जर-
नारदादयो विंशति गिरयो मेरोः कर्णिकाया इव केसरभूता
मूलदेशे परित उपकॢप्ताः ॥२६॥
जठरदेवकूटौ मेरुं
पूर्वेणाष्टादशयोजन-सहस्रमुदगायतौ द्विसहस्रं
पृथुतुङ्गौ भवतः एवमपरेण पवनपारियात्रौ
दक्षिणेन कैलास
करवीरौ
प्रागायता-वेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतैः
परिसृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः
॥२७॥
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां
पुरीमयुतयोजन
साहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति ॥२८॥
तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं
तुरीयमानेन पुरोऽष्टावुपकॢप्ताः ॥२९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां
पञ्चमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः
॥१६॥
समापनम् ঃ-
स्थूलभूतानां भूगोलखगोलयोर्विराट्ब्रह्माण्डस्य च वर्णनं
भगवतः
स्थूलरूपनिरूपणाभिप्रायेण बोध्यम्, न तु भौगोलिकज्ञान
संपादनाय; परितः
परिवर्तनशीले अस्मञ्जगति क्वचित्कालविशेषे लिखितस्य भूगोलवर्णनस्य
सदैवोपयोगासंभवात्। अतो न
तत्रेदानीन्तनदृष्टभूगोलवर्णनेन सङ्गतिरन्वेष्टवया। आधुनिकैर्हि स्थूलदृष्ट्या
समक्षं दृश्यमानस्य स्थूलजगतो वर्णनं क्रियते।
महर्षिभिस्तु योगशक्त्या मनसा प्रत्यक्षीक्रियमाणानां सूक्ष्मलोकानां
चित्रणं विहितमित्युभयत्र सामयाभावः सुस्पष्ट एव।
तस्मात् भगवतः स्थूलरूपानुध्यानार्थमेव र्विराट्ब्रह्माण्डवर्णनमिति नात्र
विसंवादः। तथा च शुकेनाप्युक्तम् – “स्थूले भगवतो रूपे मनस्सन्धारयेत् धिया” इति। न चैतावता पुराणानामप्रामाण्यं शङ्क्यम्, पयसामर्णव इव
वचसां परमात्मन्येव पर्यवसानमिति कृत्वा परमात्मपरतया पौराणिकवर्णनस्य सर्वथा
प्रमाणभूतत्वो-
पगमात्।। इति गीतामुद्रणालयप्रकाशकेन घनश्यामदासेनोक्तं
स्मार्यं भवति॥ भक्तिमात्रप्रधानं हि श्रीमद्भागवतपुराणम्। भक्तिस्तावत् कलौ युगे बलीया वर्तते।
भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथमिति चेत् श्रीमद्भागवतपुराणं उत्तरं ददाति। कर्मबन्धनमोचना भक्तिरेकं साधनं भवति। यतो हि
भक्तिस्साधनारूपा,
नतु साध्य रूपा। साध्यं तावत् जीवात्मापरमात्मनोरैक्यमिति। सर्वधर्मान् परित्यज्य
मामेकं शरणं व्रज इति भगवद्वचनं
मनसि निधाय,
श्रवण-कीर्तन- स्मरण- पादसेवन-अर्चन- वन्दन-दास्य- सख्य-आत्मनिवेदनमिति नवविधभक्त्या भगवान्
श्रीमन्नारायणः स्तोतव्यः इति श्रीमद्भागवतपुराणस्य बीजनिकषांशः। यतो हि उच्यते – न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा। हरिर्हि साध्यते भक्त्या इति श्रीमद्भागवतपुराणमाहात्म्यद्वितीयाध्याये
सूचिता।
किं
बहुणा कलौ भोगवती वार्ता
भवरोगविनाशिनी इत्युक्त्वा समापयामि ॥