Sunday, 13 September 2020

निरुक्तम् Part IV


    यास्कनिरुक्ते, नैघण्टुकम्, नैगमम्, दैवतमिति काण्डत्रयमस्ति। एतत्त्रयात्मकस्य निरुक्तिमूलस्य विस्तरशः व्याख्यानं यास्केनैव कृतमस्ति। मूलसूत्रेषु स्वीकृतानां पदानामर्थविवरणं वेदमन्त्रपदाञ्च उदाहरति। एतद्विहाय, अन्तिमे, परिशिष्ठरूपेण अधिस्तुतिः इति वेदमन्त्रैक-व्याख्यनरूपं प्रकरणमस्ति। प्रथमे नैघण्टुककाण्डे पृथिवी, हिरण्यम्, अन्तरिक्षम्, साधारणम्, रशमी,दिक्, रात्रिः, उषस्, अहस्, मेघः, वाक्, उत्कः, नदी, अश्वः आधिष्ठोपयजनम् इत्यादीनां पदानां, तथा ज्वलतीति आर्थिकानां धातूणांश्च विवरणं दृश्यते॥

                              ..... अनुवर्तते.......,

Saturday, 12 September 2020

निरुक्तम् Part III

 

पुरा निरुक्तग्रन्थानि बहूनि बहुभिर्महर्षिभिः कृतानि आसन्। पुरा यास्क-कालव-गार्भ्य-शाकपूणि-तैकिटिः इत्याख्याः महर्षयः, वेदार्थनिर्णये अनितरसाधारणसन्देहदूरीकर्तारः निरुक्तकर्तारः विररेजुः। तेषां कालस्तावत् नैरुक्तसमयः इति कथितोऽभवत्। एतैः कृतेषु निरुक्तग्रन्थेषु यास्कनिरुक्तमेव संप्रति उपलभ्यते॥

 

                              ..... अनुवर्तते.......,

Friday, 11 September 2020

निरुक्तम् Part II

 

    वेदाङगेषु शिक्षा वेदानां बाह्यभूतानां शाब्दिकतत्त्वानां निरूपणं करोति। परं तु निरुक्तं तावत् वेदानां आन्तरिकभूतानां आर्थिकतत्त्वानां स्पष्टतया निरूपणं करोति। वेदामन्त्राणामर्थं विशेषतः अर्थविर्णये दुरवगमभूतानां झर्फरी तुर्फरी इत्यादीनां वेदबोधितपदानामर्थं सुगमरूपेण, यथा - सुचन्द्र इति पदस्य सुश्चन्द्र इति, कर्णाभ्यां इत्यस्य कर्णेभिः इति, जयति इत्यस्य जयते इति पदानि वेदेषु दृश्यमानाना-मेतादृशानां पदानां वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णविलोपः इत्यादीनामर्थनिर्णयं व्याख्याति निरुक्तम्।

                                                      ..... अनुवर्तते.......,

Thursday, 10 September 2020

निरुक्तम् Part I


वेदस्य षडङ्गेषु चतुर्थं भवति निरुक्तम् । वेदस्य "निरुक्तं  श्रोत्रमुच्यते"। वेदभाष्यकारः श्रीसायणाचार्यः स्वकीये चतुर्वेद-भाष्यनामके ग्रन्थे भूमिकायां "अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्" इति अर्थात् वेदानामर्थज्ञाने निरपेक्षतया अथवा निःशेषरूपेण पदानां व्युत्पत्तिं यद्वदति तत् निरुक्त-मित्युच्यते॥

                                                  ..... अनुवर्तते......., 

Wednesday, 9 September 2020

छन्दः शास्त्रम् Part III

 

"छद अपवारणे" इत्यस्मात् धातोरुत्पन्नोऽयं शब्दः छन्दः। महर्षिः यास्कः "छन्दांसि छन्दः" इति छन्दसां लक्षणमनुजग्राह अर्थात् छन्दः वेदस्य आवरणमुत आवरणयोग्यं साधनं भवतीत्यर्थः। महर्षिः कात्यायनः "यदक्षरपरिमाणं तच्छन्दः" अर्थात् अक्षराणां गणेषु, लघु(ह्रस्व)-गुरु(दीर्घ)क्रमानुसारं नियमं करोति इति उल्लिलेख॥

                              ..... अनुवर्तते.......,

Tuesday, 8 September 2020

छन्दः शास्त्रम् Part II

 

    वेदस्य षडङ्गात्मकस्य छन्दः शास्त्रस्य  प्रप्रथमः  प्रवर्तकः पिङ्गलाचार्याख्यो महर्षिः। अनेन महर्षिणा कृतं छन्दःसूत्रम् नाम ग्रन्थः लोकप्रसिद्धः। एषः ग्रन्थः सूत्ररूपेण अष्टभागेन विभक्तः भवति। अस्मिन् ग्रन्थे वैदिक तथा लौकिकभेदैः छन्दसां वर्णनं कृतम्। प्राचीनपरम्परायां गद्यमपि पद्यात्मकीयछन्दोयुक्तवत् स्वीकृतम्। निरुक्तवृत्तिग्रन्थे "नाच्छन्दसि वागुच्चरति" इति दुर्गाचार्येन उल्लिखितम् । "छन्दोहीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितम्" इति भरतमुनेरभिप्रायः॥                                                          ..... अनुवर्तते......., 

Monday, 7 September 2020

छन्दः शास्त्रम् Part I

 

    वेदस्य षडङ्गेषु तृतीयं भवति छन्दः शास्त्रम् । " छन्दः पादौ            तु वेदस्य " अर्थात् वेदरूपस्य पुरुषस्य पादद्वयात्मकं भवति छन्दः। छन्दहीनः पुरुषः पङ्गुः भवति। अतः पङ्गुदोषात् वेदः अस्माभिः रक्षणीयः। वेदमन्त्राणामुच्चारणार्थं छन्दसां ज्ञानमावश्यकम्।                “यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्ते वा पात्यते वा पापीयान् भवति” इति महर्षिकात्यायनवचनं वेदमन्त्राणामुच्चारणं छन्दसां ज्ञानं विना दोषावहं भवतीति द्रढयति॥                                                              ..... अनुवर्तते.......,

VĀMANA BHAṬṬA BĀṆA: LIFE AND SANSKRIT WORKS

  Vāmana Bha ṭṭ a Bā ṇ a ( वामनभट्टबाण) was a Sanskrit poet, dramatist, and prose writer associated with the later classical period of Sans...