Monday, 29 June 2020

ऋतूणां माहात्म्यम्





संस्कृतसाहित्यशास्त्रे ऋतवः मुख्यस्थानं वहन्ति। ऋतवः भारतीयमतेन षट् भवन्ति। ताः ग्रीष्म-वर्ष-शरद्-हेमन्त-शिशिर-वसन्त इति षडृतवः। श्रीमद्रामायणे आरण्यकाण्डे हेमन्त-शिशिरर्त्वोः तथा किष्किन्धाकाण्डे ग्रीष्म-वसन्तर्त्वोः वर्णनं कृतमद्भुतरूपेण। तासां ऋतूणां वैभवं किञ्चिदनुभवामः -
1. ग्रीष्मर्तुः (April 15 to June 14)- अस्मिन् समये सूर्यः प्रचण्डरश्मिभिः देदीप्यमानः उदेति।  मानवाः पशवः सर्वे जलाशये अवगाहनकाङ्क्षिणः दृश्यन्ते। मार्ताण्डस्य आतपेन नितरां पीडितः सर्पः कश्चित् अवाङ्मुखो भूत्वा अज्ञानेन मयूरस् अधः छाया इति मत्वा निषीदति॥
2. वर्षर्तुः (June 15 to August 14)- नवसलिलविषेकात् वनान्तः समन्तात् जातपुष्पैः कदम्बवृक्षैः मुदितः इव, वायुना चालितशाखैः वृक्षैः नृत्य-तीव, केतकीपुष्पाणां श्वेतवर्ण-मकरन्द-सूचिभिः हसितः इव दृश्यते॥
3. शरदृतुः (August 15 to October 14)- कुसुमसङ्गात् वायुः शीतः वाति। विगतमेघाः दिग्विभागाः द्रष्टुं मनोहरा भवन्ति। जलाशयाः कलुषहीनाः, धरित्री तावत् शोषित-पङ्कयुक्ता, विमलकिरणसहितेन चन्द्रेण तथा तारागणैः आकाशः रमणीयः भवति॥
4. हेमन्तर्तुः (October 15 to December 14)- नगराणां तथा ग्रामाणां सीमान्तराणि व्रीहीणां शालिभिः युकतानि, मृगाङ्गनाबृन्दैः विभूषितानि, तत्र तत्र क्रौञ्चपक्षिभिः निना-दितानि  द्रष्टॄणां नेत्राह्लादनं जनयन्ति
5. शिशिरर्तुः (December 15 to February 14) - अस्मिन् समये, योषितः स्वकीयेषु गृहेषु प्रभाते उत उषःकाले कनक-कमलकान्ताः वदनबिम्बाः, चारुताम्राध-रोष्ठाः, श्रवणतट-निषक्ताः पाटलोपान्तनेत्राः, अंस-संसक्त-केशाः श्रीमहा-लक्ष्मीरिव विराजन्ते
6. वसन्तर्तुः (February 15 to April 14)- अस्मिन् समये वृक्षाः पुष्पभरिताः, जलाशयाः पद्मभरिताः, स्त्रीयः काम-वशगाः, वायुः सौगन्धयुक्तः, प्रदोष-समयाः सुखमयाः, दिवसाः च रमणीयाः इति एकैकशः सर्वे चारुतराः चारु-तमाश्च वर्तन्ते

No comments:

Post a Comment

HAPPY WOMEN'S DAY

  In Sanskrit literature and philosophy, women are celebrated through verses and titles that elevate them to a divine status, often describi...