Sunday, 28 June 2020

वीणायाः वैशिष्ठ्यम्

Saraswati veena - Wikipedia
     
सङ्गीतशास्त्रे वीणायाः स्थानं महत्त्वपूर्णं भवति। ततम्,                अवनद्धम्, घनम्, सुषिरम् इति सङ्गीतशास्त्रे वाद्यं चतुर्विधं भवति। तेषु वाद्येषु ततरूपवाद्यं वीणावाद्यं भवति। तदधिकृत्य किञ्चित् जानीमः॥
1. वीणा तावत् सरस्वतीवीणा, रावणवीणा, अम्बिकावीणा, बाणवीणा, काश्यपवीणा, (ब्रह्म)स्वयंभूवीणा, किन्नरी, (शिव)पिनाकी, भोल्लवीणा, मनोरथा, कौमारी, अणि-बाणि, (विपञ्ची)अधिकचित्रिका, नटनागरिका, कुम्भका, मल्लरी, यकुलाष्टी, घोषावती, तन्त्रीसागरः, अम्बुजवीणा, नारद-वीणा(महती), तुम्बुरुवीणा,  इत्यादयः अनेकाः॥
2. वीणावाद्यं पनसवृक्षखण्डैर्निर्मीयते। तस्मिन् पनसदारु-खण्डस्य उपरि जतुकया स्वरस्थानं चतुर्विंशतिभागाः पित्तललोहखण्डैः विविधान्तरात्मकया विभक्ताः भवन्ति। तथा वादकस्य पार्श्वभूते वीणावाद्यस्य वामभागे श्वेतवर्ण-चिह्नानि अङ्कितानि यानि स्वरस्थानबोदकानि सन्ति॥
3. वीणावादनप्रकाराः वाम-दक्षिण-उभयहस्तव्यापाराः त्रयः॥

Saraswati veena - Wikipedia Lord Shiva Playing Veena | Shiva, Mahakal shiva, God shiva
4. वीणावादनतत्परा वाणी श्रीसरस्वतीदेवी "या कुन्देन्दु-तुषारहारधवला" इत्यादिभिः श्लोकैःसर्वैः पूज्या विलसति।
वीणावादनतत्परो देवः श्रीमेधादक्षिणामूर्तिः गुरवे सर्व-लोकानाम् " इत्यादिभिः श्लोकैःसर्वैः पूज्यो विकसति।
शिवभक्तः रावणः सामवेदगानयुक्तेन वीणावादनेन परमेश्वरं सन्तोषय्य अनेकवरान् प्राप्य ईश्वरपदम् अलङ्कृतवान्॥ 

Origin of Ravana's Own Violin- Ravanhatha - NYK Daily

No comments:

Post a Comment

HAPPY WOMEN'S DAY

  In Sanskrit literature and philosophy, women are celebrated through verses and titles that elevate them to a divine status, often describi...