Thursday, 18 June 2020

कालिदासकृतरघुवंशे स्त्रीणां वैशिष्ठ्यम्









Kalidasa's 'Raghuvamsam' now in English | India.com 
प्रस्तावना –

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव।।
     सत्यमेव। यतो हि कालिदासस्य वाणी मधुरा, प्रीतियुक्ता, सहृदयहृदयाह्लाद करी च भवति। वाल्मीकिव्यासानन्तरं अपारे काव्यसंसारे  कालिदास एव प्रजापतिः  इत्युक्ते संशयो नास्त्येव। विविधशास्त्राणां व्यासङगेन जातं बहुश्रुतत्वं, अनेकासां कलानां प्रयोगेन जातं नैपुण्यं, व्यवहारादागतान् अनुभवांश्च  रम्यता-यथार्थता -वैविध्य-शास्त्रीयता-निसर्गता-औचित्यतादिभिः काव्यानि विरचय्य पठितॄणां प्रीतिं विन्दति कालिदासः। स्वकीये रघुवंशमहाकाव्ये कालिदासः कथं स्त्रीणां वैशिष्ठ्यं वर्णयति स्म इति अस्मिन् व्यासे किञ्चिदास्वाद्यते।।

विवरणम्

अस्माकं भारतीयसंस्कृतौ स्त्रीणां भूमिका महत्त्वपूर्णा विद्यते। यॊषित्-नारी-
महिला-प्रभृतयः स्त्री इत्यस्य पर्यायवाचिनः शब्दाः सन्ति।
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्ताः विफलाः क्रियाः।।
इत्याद्युक्तिभिः स्त्रीणां विषये आदरातिशयः गौरवभावश्च अवगम्यते। अस्मिन्
व्यासे कालिदासः रघुवंशे कथं स्त्रीजनान् वर्णयति स्म इति पश्यामः। प्रथमं
1.स्त्रीषु देवतारूपेण पार्वतीदेवीमित्थं -

                                Image result for Image of Parvati

वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वती-परमेश्वरौ।।
अत्र पार्वतीदेवी वाग्रूपिणी अर्थरूपपतिसंपृक्ता इति वर्णयति ।

2. दिलीपस्य पत्नी सुदक्षिणा
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा।।(1 – 31)
तया मेने मनस्विन्या . . . . .(1 – 32)       तस्यामात्मानुरूपायां . . .(1 – 33)
इत्यादिभिः श्लोकैः वर्णिता दिलीपस्य पत्नी सुदक्षिणा मगधवंशजा, मनस्विनी,
दिलीपस्यात्मानुरूपा, पुत्र-कामिनी, अध्वरस्य दक्षिणा इव विलसति। स्वपत्या
दिलीपेन सह कुलगुरु-वसिष्टादेशेन सा सवत्सनन्दिनीं समपूजयदिति
वधूर्भक्तिमती चैनामर्चितामातपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि।। (1 - 90)
प्रदक्षिणिकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः।। (2 - 21) इति श्लोकाभ्यां कालिदासः वर्णयति।।

3.श्रीरामचन्द्रस्य पत्नी सीता

                       Understanding Sita : Beyond Misconceptions

श्रीमद्रामायणं सीतायाश्चरितं महदिति सीतायाः स्वरूपं विशेषरूपेण प्रतिभाति।
सीता न केवलं रामस्य प्रियपत्नी अपि तु कालिदासेन रघुवंशे संभाविता सत्कृता
पवित्रीकृता च। तस्याः कथापात्रं मेघसन्देशे अपि जनकतनयास्नानपुण्योदकेषु
इति रामगिरिवर्णने उल्लिलेख। रघुवंशे
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत्।(9-47)
मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् ।। (9-48) इति श्लोकाभ्यां सीता अयोनिजा दिव्या इति कालिदासः वर्णयति।।
रामेण सह सीता वनगमनसमये, कैकेय्या प्रतिषिद्धापि गुणोन्मुखी लक्ष्मीरिव सा
राममनुवव्राज इति विषयं बभौ तमनुगच्छन्ती विदेहाधिपतेस्सुता।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी।।(12-26)इति वर्णिता।
वने सञ्चरणसमये अत्रिमहर्षितपोवने तस्य पत्नी सीतायै
सुगन्धलेपनं प्रादात्। तत्सुगन्धलेपनेन कृत्स्नं काननमपि सुरभीकृत्य
पुष्पोच्चलितषट्पदं कारयति स्म इति
अनसूयातिसृष्टेन पुण्यगन्धेन काननम्।
सा चकाराङ्गरागेन पुष्पोच्चलितषट्पदम्।।(12-27) इति श्लोकेन ज्ञायते।।
कलत्रवानहं बाले कनीयांसं भजस्व मे।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्।।(12-34) इति श्लोकेन
श्रीरामचन्द्रस्य सीतेति-एकपत्नीव्रतत्वं तथा सीतायाः पातिव्रत्यं च दृश्यते।
रावणवधानन्तरं रामेण पुनर्गृहीता सीता इत्यंशः
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम् (12-104) इति श्लोकेन मनोवाक्कायैस्सा सीता पतिव्रताधर्मं पालयाञ्चकारेति च द्योतते। रामोऽपि
अवैमि चैनामनघेति किंतु . . . (14-40) इति श्लोकेन सीतां साध्वी इति रामः प्रास्तूयत।


                             RAMAYANA
3. दशरथस्य पत्न्याः –
    तमलभन्त पतिं पतिदेवताः शिखरिणामिवसागरमापगाः।
    मगध-कोसल-केकयशाशिनां दुहितरोऽहितरोपितमार्गिणम्।।(9 – 17) इति शलोकः मगधराजदुहिता सुमित्रा, कोसलराजदुहिता कौसल्या, केकयराजदुहिता कैकेयीति च ज्ञायते।
अ)  तासु प्रथमा कौसल्या कथंभूता इति
    अर्चिता तस्य कौसल्या प्रिया केकयवंशजा।
    अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः दशरथस्य पत्नीषु कौसल्या दशरथेन  संमानिता संभाविता सत्कृतेति,
    ते बहुज्ञस्य चित्तज्ञे पत्न्यौ. . . (10 - 56) इति श्लोकः दशरथस्य चित्तज्ञा इति,
अथाग्र्यमहिषी राज्ञः . . (10 – 66) इति श्लोकः इति वर्णिता भवति।।
आ) द्वितीया कैकेयी कथंभूता इति
    अर्चिता तस्य कौसल्या प्रिया केकयवंशजा।
    अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः
दशरथस्य  प्रेमपात्रभूता  प्रियपत्नी कैकेयी इति,
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ. . . (10 - 56) इति श्लोकः दशरथस्य चित्तज्ञा इति,
   कैकेयी-शङ्कयेवाह पलितच्छद्मना जरा। (12 – 2) इति श्लोकः कैकेयी स्वकीयपत्युर्वार्धक्यं नैच्छदिति,
   तस्याभिषेकसंभारं      कल्पितं क्रूरनिश्चया।
   दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः।।(12 – 4) इति श्लोकः श्रीरामचन्द्रस्य यौवराज्याभिषेकं नैच्छदिति,
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।
उद्ववामेन्द्रसिक्ताभूः बिलमग्नाविवोरगौ।। (12 – 5) इति श्लोकः कैकेयी बहुधा दशरथेन समाश्वासिताऽपि चण्डी भूत्वा स्वकीयमनोरथं पूरयितुं  विषसर्पभूतौ द्वौ वरौ पूर्वं दशरथेन प्रतिज्ञातौ अपृच्छदिति च ज्ञापयति।।
इ) तृतीया सुमित्रा कथंभूता इति
 अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः।।(10 – 55) इति श्लोकः
कौसल्याकैकेयीभ्यां संभाविता सुमित्रा इति दिशति। कौसल्याकैकेयीभ्यां संभाविता सुमित्रा इति विषयं इतोऽपि
  चरोरर्धार्धभागाभ्यां तामयोजयतामुभे।। (10 - 56) इति श्लोकेन च कालिदासः द्रढयति।
सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिस्सयन्दरेखयोः।। (10 – 57) इति श्लोकः
एषा सुमित्रा सपत्न्योः कौसल्याकैकेय्योः उभयोः प्रणयवती आसीदिति स्मारयति।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ।
संयगाराधिता विद्या प्रबोधविनयाविव।। (10 - 71) इति श्लोकः प्रबोधविनयोपमितौ सुतौ लक्ष्मणशत्रुघ्नौ  संयगाराधित-विद्योपमिता सुमित्रा सुषुवे अर्थात् अजीजनदिति च सूचयति।

इतोऽपि राम-भरत-लक्ष्मण-शत्रुघ्नैः क्रमशः सीता-माण्डवी-ऊर्मिला-श्रुतकीर्तयः
परिणीता इति-
पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम्।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे।।(11 - 54)
अस्मिन् श्लोके तयोरवरजौ इति पदेन रामविवाहानन्तरं लक्ष्मणविवाहकथनं तस्य रामसाहचर्यमात्रेणैव। न तु विवाहक्रमापेक्षया। अन्यथा लक्ष्मणस्य परिवेत्तृतवदोष प्रसङ्गात् इति रघुवंशव्याख्याकारः नारायणः कालिदासस्य कवननैपुण्यं प्रत्यपादयत्।।
समापनम् :-
इतोऽपि इन्दुमती, शूर्पणखा, कुमुद्वती इत्येतासां कथापात्राणि तथा तासां वैशिष्ठ्याणि च संयक् प्रतिपादितानि कालिदासेन। समुद्र इव गम्भीरे इयत्तानि एव मुक्ताफलानि मया उपचितानीति विरमामि।।

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...