अस्मिन्लोके मानवाः श्रेयस्करं जीवनं प्राप्तुं मनीषिणः विविधान् नयमार्गान् उपदेशं कृतवन्तः .तेषु परोपकारः एकः उत्तमः भवति . तं अधिकृत्य किञ्चित् पश्यामः
परोपकारः पुण्याय पापाय परपीडनम् .
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः.
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् .
कर्णः त्वचं शिबिर्मांसं जीवं जीमूतवाहनः .
ददौ ददीचिः अस्थीनि नास्त्यदेयं महात्मनाम्.
श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिः न तु कङ्कणेन .
विभाति कायः करुणाकराणां परोपकारेण न चन्दनेन .
अतः वयमपि यथाशक्ति परोपकारं कृत्वा जीवने महत्वं अनुभवामः .
No comments:
Post a Comment