Saturday, 4 February 2017

यमकरत्नाकरः – एका विहङ्गमदृष्टिः


                चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
                काव्यादेव यतस्तेन तत्स्वरूपं निगद्यते ।। (सा.द. 2-I )
इति साहित्यदर्पणदृशा विशेषज्ञतारहितपामराणामपि धर्मार्थकाममोक्षाख्याः चतुर्विधपुरुषार्थाः काव्यादेव प्राप्तुं योग्याः भवन्ति। काव्यं साहित्यमिति च व्यवह्रियते। साहित्यस्य रस-ध्वनि-रीति-वृत्ति-वक्रोक्ति-अलङकार-औचित्य इत्यादीनि सोपानानि बहूनि भवन्ति।।
         
         शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।  
         हारादिवदलङ्काराः  तत्र   स्युः   उपमादयः  ।।(प्र.रु. का. प्र)   

काव्यस्य शब्दार्थौ शरीरम्। रसादिश्च आत्मा। गुणाः शौर्यादिवत्। दोषाः काणत्वादिवत्। रीतयः अवयवसंस्थान -विशेषवत्।  अलङ्काराः कटककुण्डलादिवत् इति पिण्डीभूतांशाः कथिताः।  काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते” “काव्यं ग्राह्यमलङ्कारात्” “अलङ्कृतिरिति अलङ्कारः इति सूक्तयः काव्यानि अलङ्काराः एव अलङ्कुर्वन्तीति ज्ञायते। किं बहुना प्रायः साहित्यशास्त्रं अलङ्कारशास्त्रमित्येव व्यवह्रियते। अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम्। अलङ्कार एव काव्यस्य आत्मा भवतीति आलङ्कारिकाणां मतम्।  एतन्मतस्य
 स्थापकः भामहः। दण्डी, उद्भटः, रुद्रटः, रुय्यकः, जयदेवः, अप्पय्यदीक्षितः, शोभाकरमिश्रादयः एतन्मतानुयायिनः। रमणीयार्थप्रतिपादकः शब्दः काव्यमिति स्वोक्त्या रसवादी जगन्नाथोऽपि अलङ्कारानुयायीति, ध्वनिकारः आनन्दवर्धनश्चापि  - तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः।
                          अङ्गाश्रिस्त्वलङ्काराः मन्तव्याः कटकादिवत्।। इति च ध्वन्यते।।

अलङ्काराः शब्दालङ्काराः, अर्थालङ्काराः, उभयालङ्काराः इति त्रिविधात्मकाः भवन्ति। शब्दालङ्काराः यमकादयः, अर्थालङ्काराः उपमादयः, उभयालङ्काराः वक्रोक्ति-श्लेषादयः।।

एतेषु संप्रति दासोऽहं शब्दालङ्कारेषु यमकालङ्कारविषये किञ्चित् यथामति वच्मि। शब्दालङ्कारेषु केचित् लयतालानुबद्धाः = Rhythmic; केचन सङ्गीतस्वरयुक्ताः = Musical tuned; अनुप्रासयुक्ताः = with alliteration; यमकात्मकाः = Chimes इति विविधप्रकाराः सन्ति। तत्र यमकम् स्वीक्रियते। यमकालङ्कारः द्रमिडभाषायां மடக்கு அணி इति, तथा  Chime; Paranomasia, Rhyme and Assonance इति कथ्यते। यमकालङ्कारस्य लक्षणं विविधैराचार्यैरित्थं लक्ष्यते

शब्दाभ्यासस्तु यमकं पादादिषु विकल्पितम्।। -  भरतमुनिः।।

आवृत्तिवर्णसङ्घातगोचरं यमकं विदुः।।  -  दण्डी ।।

पदमनेकार्थमक्षरं स्थाननियमे यमकम्।।  -  वामनः।।

अनेकवर्णावृत्तिर्या भिन्नार्थप्रत्पादिका।।  -  अग्निपुराणकर्ता।।

आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः।। -  जयदेवः।।

यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः।। -  विद्यानाथः।।

सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः। क्रमेण तेनैवावृत्तिः यमकं विनिगद्यते।।    -  विश्वनाथः।।

     वेदमूलकानि सर्वशास्त्राणि, वेदात् शास्त्रं परं नास्ति इति सूक्त्या वेजस्य सर्वस्वत्वं सर्वाधारत्वं सर्वकारकत्वञ्च ज्ञायते। यमकालङ्कारप्रयोगाः वेदेष्वपि दृश्यन्ते -

हिरण्यरूपः स हिरण्यसन्दृगपां न पात्सेदु हिरण्यवर्णः।
 हिरण्यात् परि योनिर्निषद्या हिरण्यदा ददत्यन्नमस्यै।।2-35-10।
 “सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्यः।
 जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः।।9-96-5 ।
कङ्कतो न कङ्कतो।।1-191--1।।  शरासः कु शरासः।।1-191--3।।
अदृष्टा विश्वदृष्टा।।1-191- 5 & 6।।                                   -             इति ऋग्वेदे ; 

यजुर्वेदे   -  यज्ञेन यज्ञमयजन्त देवाः”; “श्रद्धया देयम्”; अश्रद्धयाऽदेयम् इति; “क्लीबं क्लीबं त्वाकारं वध्रवध्रित्वाकरमरसा सन्त्वाकरम्।। 6-168--1।।  ;

ददृचा सनं यते ददन्मेधामृतायते” ।। 5-27-4।।  इति अथर्ववेदे स्थालीपुलाकन्यायेन उदाह्रियन्ते।।

श्रीमदादिकविरपि श्रीमदादिकाव्ये बहुत्र तपस्वाध्यायनिरतं तपस्वी, दक्षिणो दक्षिणं दिशं, रावणो लोकरावणः, ततो युद्ध...चिन्तया स्थितं- युद्धाय समुपस्थितं, इति यमकमयैः पद्यैः उदाहरति स्म। किं बहुणा सुन्दरकाण्डे पञ्चमे सर्गे सर्वे सप्तविंशतिः श्लोकाः यमकेन यमिताः। भोजराजः मार्गदर्शी महर्षिः इति वाल्मीकिं स्तौति।।

      नरमृगपतिवर्ष्मा....नारीनरदनुज..., सर्वलोकोत्सवः सवः, तनुताम्रनखेन खे। इति नवविधनाटकप्रणेता भासमहाकवेः,      वागर्थाविव... वागर्थ..., तदन्वये शुद्धिमति.... शुद्धिमत्तरः,      रामो रामावबोधितः, इति कविकुलतिलकः कालिदासस्य च वर्त्मानुसृत्य श्रीवत्साङ्कमिश्रः श्रीवत्सचिह्नमिश्र इत्यपरनामा कूरत्ताழ்वान् इति द्रमिडभाषयाऽऽहूतः विशिष्टाद्वैतमताचार्याः भगवद्भाष्यकारशिष्यतल्लजःयमकालङकारैः स्वग्रन्थं भागवतपुराणांशभूतं कंसध्वंसकथानामकं यमकरत्नाकरमिति व्यधायि।।

     श्रीकूरत्ताழ்वान् श्रीस्तवं, वरदराजस्तवमित्यादि पञ्चस्तवमरचयत्। विद्यावतां कुरु भागवते परीक्षां इति वचनानुसारं भागवतपुराणविषयं स्वीयग्रन्थे यमकरत्नाकरे। दर्शनार्थं दर्शनदाता इति विख्यातवैभवः।।

पदमनेकार्थमक्षरं वावृत्तं स्थाननियमे यमकम्।
पादः पादस्यैकस्थानेकस्य चादिमध्यान्तमाकाः स्थानानि।।  इति वामनाचार्यः यमकवैविध्यं सूचयति। स्वग्रन्थमित्थमारभते।
1. पद्माक्षमासमेतं प्रसन्नतोयदगतिस्वभावस्थम्।
    पद्माक्षमासमेतं प्रसन्नतो यदगतिस्स्वभावस्थम्।।  1 – 1 ।।
    मायाहीनो ज्यायानेतावानित्यमेयोयः।
    माया हीनो ज्याया नेता वा नित्य-मेयो यः।।  2-1 ।।
इति समुद्गयमकं (अर्धाभ्यासः समुद्गः) उदाहरति।
 2. द्विचतुर्थपादयमकं or युक्पादयमकम् इत्थं उदाहरति-
  यो ज्येष्ठो विधिरमरव्रजतस्तुतमाद्यतानितामसमितम्।
  जयन्तमधुमयनं व्रजत स्तुत माद्यत-अनित-अमरसमितम्।। 6-1
3. समुच्चय यमकम् or पुष्पकम् यथा –
     प्रतिपादं वृन्तादुपरि पुष्पमिवावस्थितत्वात् पुष्पयमकम् इत्युच्यते।
यद्रिपुकालङ्कालं कलयति यश्चाखिलप्रकालं कालम्।
धृतकङ्कालङ्कालं द्विषन्तम् अर्धयति योsम्बिकालङ्कालम्।।
4. सन्दष्टयमकं or काञ्चीयमकम् यथा –
 (सन्दष्टयमकस्थानमन्तादौ पादयोर्द्वयोः)
पतिमतिमोदयितारं दयितारं या च मानेन।
वचसागात् – अयितारं दयितारं याचमानेन।। 49-9।।
5. एकाक्षरीयमकम् यथा (श्रीदामा इत्थं कृष्णं प्रशंसति)
 आ आ आ आ आ आ आ आ  आ आ आ आ आ आ आ आ।
 आ आ आ आ आ आ आ आ  आ आ आ आ आ आ आ आ ।।
आस उपवेशने अस गतौ आनु क्षेपणे
6) लीलालालोलोलो लालालालीललोलीलः।
लीलालालोलोलोलालालाली ललोलीलः ।। 12-12।।
     लीलां लालयततीति लीलालालः अलोलः अचञ्चलः लालालाः अरयः सप्तवृषभाः तेषां अलीलः – लालालालीलः तं राति ददातीति लालालालीललः। अलीलः – अराः अस्य सन्तीति अरी (अली) चक्रं तं ईरयतीत्यरीरः - अलीलः (ईरयति-धरति)। लीलालालोलोलः – लियं श्लेषं लालयन्तीति लीलालाः, लीलालाश्च लोलाश्चेति लीलालालोलः। तान् ईरयति अङ्गीकरोतीति लीलालालोलोलः – सर्वेषां कृते वात्सल्ययुक्तः।।
अलालालाली-अलालाः लालनहीनाः तान् न लालयतीति अलाली,  अलालालाली उत लालालाली – लालान् लालयितॄन् अलालयति, उपलालयति इति लालालाली। ललः-विलासीत्यर्थः। लीलः लियं श्लेषं लाति आदत्ते इति लीलः।।
लल ईप्सायां लालयते wishes/obtains ; लीङ् श्लेषणे लीयते covers; लल विलासे लसति shines with sports
6. पादादि यमकम् (चक्रबन्धे)
  यस्य भयस्य भरोमा मत्राप त्रापयाभीक।
  कामित कामित दारो नाहं नाहं भजै हेयम्।। 48- XII ।।
7. द्विचतुष्पादयमकानि (चक्रबन्धे)
    कं ह्यचलाप्ता हेऽवक सत्या युक्ताऽभवन्नाथा।
    ध्वंसितशत्रुप्रार्थित सत्या युक्ता भवन्नाथा।। 49- XII ।।
    चक्रे चक्रेश सपदि काऽनेका नेह भीस्सादम्।
    रक्षित रक्षित शोका तस्तेऽतस्ते रिपौ नव्यम्।। 50- XII ।।
   श्रीतश्श्रीत धराधिप वत्सावत्सारणो दारा।
   साङ्गा साङ्गाश्रिवश कःपाकः पापजो घोरः।। 51- XII ।।
एभिः चतुर्भिः श्लोकैः ग्रन्थकर्ता स्वस्य नाम –गोत्र-ग्रन्थनामानि उल्लिख्य इत्थं –
     यमकानामाकरोऽयं कंसध्वंसकथा तथा।
     चकार तदिदं काव्यं श्रीवत्साङ्कः पराशरः।। इति द्योतयति।।

समुद्गयमकेन स्वग्रन्थं इत्थं समापयति –
     परमोऽक्षरो महीयान्नागाध्यासी स मे तु नरकान्तः।
     परमोक्षरो महीयां नागाध्यासी  समेतु नरकान्तः।।76 - XVI ।।

निगमान्तदेशिकैः यादवाभ्युदये समग्रः षष्टः सर्गः
       सहसा सहसार्थैर्या तरसेतर सेवनम्।
       तनुतात नुताद्वज्री नगतो न गतोऽर्च्यताम्।।
अत्र इन्द्रं मा नमेयुः इति नन्दगोपं प्रति श्रीकृष्णवचनम्।
दयाशतके -  मृदुहृदये दये मृदितकामहिते महिते।।
वैराग्यपञ्चके – धनमिति पदस्यावर्तनं एकादशवारमुपयुज्य
   शरीरपतनावधि प्रभुनिषेवणापादनात्
   अबिन्धन धनञ्जय प्रशमदं धनं दन्धनम्।
   धनञ्जय विवर्धनं धनमुदूढ गोवर्धनं
   सुसाधनमबाधनं सुमनसां समाराधनम्।। इति यमकालङ्कारैः बहवः शलोकाः यमिताः इति स्थालीपुलाकन्ययायेन किञ्चित् सूचितम्।।

समापनम् :-
         ध्वन्यात्मभूते शृङ्गारे यमकादि निबन्धनम्।
         शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः।।  इत्युक्त्वा आनन्दवर्धनः शृङ्गारकाव्ये यमकनिबन्धनं नाभिनन्दति। कवेः कर्म काव्यम्। कविः क्रान्तदर्शी। निरङ्कुशाः कवयः। अतः आनन्दवर्धनो वा तदनुयायी आचार्यमम्मटो वा यः कोऽपि वा भवतु, तैस्सर्वैः
         काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।
         उत्सवः सुधियामेव हन्त दुर्मेधसां नृणाम् ।। इति भामहवचनमत्रानुसन्धेयम् ।।
   कालिदाससमकालीनो घटखर्फराख्यः कविः  स्वस्मिन् घटखर्फरसन्देशकाव्ये –
भावानुरक्तवनितासुरतैः शपेयं आलम्ब्य चाम्बुतृषितः करकोशपेयम्।
जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घटखर्फरेण।।
इति शपथं कृतवान्।  यमकरत्नाकरकर्ता श्रीकूरत्ताழ்वान् 1011 श्लोकान् यमकैः यमित्वा तत्शपथं  भग्नं कृतवान्।।
      अतः शब्दालङ्काररचनेन श्रवणेन पठनेन अस्माकं व्याकरणज्ञानं

वर्धते इति समापयामि ।।

No comments:

Post a Comment

A SHORT TREATISE ON SANSKRIT PROSODY - Part I

       PROSODY means the study of poetry.  In Sanskrit it is called Chandas or Vruttam.     The earliest and most important work in Sanskrit...