वादित्रवाद्यनिपुणं
वाद्यविद्याविशारदम् ।
शिवरामं शिवानन्दं वन्दे
शिष्यशुभप्रदम् ।। 1 ।।
मृदङ्गवादने
धुर्यं चिदङ्गसाधने धुरम् ।
सदङ्गपाठने
भक्तं हृदङ्गवादने भजे ।।
2 ।।
मञ्चे वीरासनेऽयं ददडदडदडद् धावमानो मृदङ्गे
श्रीमन्नन्दीव वाद्ये
ततडतडतडत् त्रोटयन् नो मनांसि ।
गुम्कीकारेण संयक् घुघुटघुटघुट प्रेरयन् हार्दिकानां
पश्यन् शृण्वन् विहस्यन् खलखलयुतै रम्यनादैश्चकास्ति ।। 3 ।।
चतुस्रगतितिस्रगतिमिश्रगतिखण्डगतिसङ्करगतीश्च विविधां
अशेष मुरजाङ्क्यसुयशःपटहवाद्य घन दुन्दुभि सुवादनपटुम् ।
तदींगिन ततों तकिट तां तकिट दिन्दिमिदिदीं तकिट तां तकिट तों
मृदङ्गलयतन्त्रविधिबोधकसुवर्यशिवरामसुगुरुं हृदि भजे ।।4।।
श्रीरस्तु ! शुभमस्तु !! शिवमस्तु !!!
No comments:
Post a Comment