Friday, 2 July 2021

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम् - Part II

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्

                                    प्रथमे सर्गे श्लोकाः (6 - 10) 


                                                            

1. निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः।

   तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम्॥6॥

सन्धि-विग्रह-यान-स्थान-द्वैधीभावं-समाश्रयादि राज्ञां व्यवहाराः अतिगभीराः भवन्ति। वयं चाराः अल्पमतयः मानवाः। वयं तादृशगभीरव्यवहारान् ज्ञातुं न शक्ताः। अतः अज-गजयोरन्तरं भवति तद् अनतरं अस्माकं तथा नृपाणां च व्यवहारेषु। एवं सत्यामपि वस्तुस्थितौ, दुर्योधनस्य विषये यदहं ज्ञातवान्, तत्सर्वं भवतः प्रभावादेव (भवतः प्रभावः एव कारणं भवति)॥6॥

2.    विशङ्कमानः भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः।

दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः॥7॥

दुर्योधनस्तु सकलसाधनसम्पदः। भवान् तावत् वनवासी, तथा सेनादिरहितः। तथापि सः, त्वत्तः पराजयं प्राप्स्यामि इति शङ्कते। सज्जनैः निन्दितेन द्यूतेन प्राप्तां महीं, नयेन लब्धा इति दर्शयितुं सः प्रयतमानः वर्तते॥7॥

3.  तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः।

समुन्नयन् भूतिमनार्यसङ्गमात् वरं विरोधोऽपि समं महात्मभिः॥8॥

स्वभावतः वक्रः वञ्चकश्च दुर्योधनः, तथापि सः, भवन्तमिव आत्मानमपि गुणगणान्वितं प्रदर्शयितुं वाञ्छति। तादृशैः सद्गुणैः सर्वत्र शुभ्रां कीर्तिं प्रसारयति। महापुरुषैः सह कृतः विरोधः यदि शुभं तन्यात्, तर्हि सः विरोधोऽपि श्रेयस्करः एव। यतो हि, नीचैः जनैःसह क्रियमाणात् सख्यादपि, ईषत् श्लाघार्हतां च लभते एव॥8॥ 

4.  कृतारिषड्वर्गजयेन मानवीं अगम्यरूपां पदवीं प्रपित्सुना।

विभज्य नक्तं दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्॥9॥

सः दुर्योधनः, आत्मनः मनसि स्थितान् काम-क्रोध-मोह-लोभ-मद-मात्सर्यादि शत्रुभूतान् इन्द्रियान् विजित्य, आलस्यं च परित्यज्य, मनुना प्रोक्तेन धर्ममार्गेण राज्यं पालयितुम् इच्छति। स्वकर्तव्यं कार्यजातं चापि निर्वर्तयितुं, दिवा नक्तं विभज्य तदनुगुणं न्याय्येन मार्गेण च स्वसमीहितं साधयितुं, सः इदानीं प्रयत्नं वितनुते॥9॥

5.  सखीनिव प्रीतियुतोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु-बन्धुताम्॥10॥

भृत्य-मित्र-बन्धूनाम् अनुरागं प्राप्तुम् इच्छन् सः दुर्योधनः, तेषां सर्वेषां विशिष्टं किमपि गौरवं वितरति। सः तथा विहरति भृत्येषु, यथा द्रष्टारः नराः भृत्यान्, दुर्योधनस्य सुहृदः मन्वते। अपि च, सुहृदां बन्धूनाम् आदरं करोति। एवमेव, बान्धवानां सर्वस्वाम्यं ददाति। अनेन विधिना पूजिताः ते भृत्य-मित्र-बन्धुजनाः सर्वेऽपि तस्मिन् दुर्योधने अनुरागं कुर्वन्ति॥10॥


                                            


Wednesday, 30 June 2021

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्



                     

        महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्

प्रथमे सर्गे श्लोकाः (1 - 5)

महाकविः भारविः -

संस्कृतभाषासाहित्ये महाकवेः भारवेः स्थानम् अतीव महत्त्वपूर्णम् अस्ति। भारवेः रचनाशैली अन्येभ्यः गरीयसी, अन्यकवीनां मार्गदर्शिका, मनोहरतमा, गाम्भीरार्थयुक्ता, नारिकेलपाकात्मिका इति स्तूयमानत्वात् भारवेः अर्थगौरवम् इति विद्वज्जनैः सदा संस्तूयते। एतत् भारवेः उक्त्या एव - स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् इति समर्थ्यते। इतोऽपि भारवेः रचनाशैली विविक्तवर्णाभरणा, श्रवणसुखदा, शत्रूणां हृदयान्यपि प्रसादयन्ती, प्रसन्नगम्भीरपदा सरस्वती प्रवर्तते। भारवेः पदप्रयोगः पाणिनिव्याकरणपरिपुष्टः, शुद्धार्थपूर्णः, गम्भीरशैलीयुक्तश्च वर्तते। अस्य किरातार्जुनीयमहाकाव्ये केवलं सर्गत्रयपठनेनैव कोऽपि पाठको पठितस्सयात् सः संस्कृतभाषायां महापण्डितो जायेत इत्यत्र न कोऽपि संशयः॥

किरातार्जुनीयम् -

भारवेरर्थगौरवम् इत्यनुसारं भारवेः वाणी अर्थगौरवपरिपूर्णा तथा स्वल्पैरपि शब्दैः विपुलगूढार्थप्रकाशिका इति प्रतीयते। कालिदासापेक्षया द्राक्षापाकमाधुर्यताहीनापि परं प्रसाद-दीप्ति-गुणयुक्ता तथा रस-भाव-ध्वन्यलङ्कारादिभिः पुष्टिता नारिकेल-पाकघट्टिता भवति भारवेः वाणी किरातार्जुनीयमहाकाव्ये। अष्टादशसर्गात्मकं महाकाव्यमेतत् किरातार्जुनीयम्। सामाजिक-राजनीतिकविषयभरिते, नीति-सुभाषितादिसमलङ्कृते, चित्रकाव्ये चाद्भुतनैपुण्यं समाविश्य महाकविः भारविः चित्ताकर्षकं किरातार्जुनीयं महाकाव्यमरचयत्। अस्य महाकाव्यस्य नायकः धीरोदात्तः अर्जुनः। प्रतिनायकश्च किरातपतिः भगवान् शङ्करः। स्वाग्रजेन युधिष्ठिरेण समादिष्टः अर्जुनः, भगवन्तं शङ्करमुद्दिश्य तपः कृत्वा, तेन प्रसादितेन पाशुपतास्त्रेण प्रतिनिवृत्य कौरवपाण्डवयुद्धे विजयम् समवाप। अतः पाशुपतास्त्रवरणं पशुपतेः सकाशं कथं प्रवृत्तमिति अस्मिन् महाकाव्ये भारविना संयक् विस्तृतम्। अर्जुनशङ्करौ आलम्बनविभावौ। द्रौपदीवाक्यानि उद्दीपनानि। अर्जुनशङ्करयोः धनुराकर्षणादयः अनुभावाः। धृत्यादयः स्थायीभावाः। उत्साहोऽपि  स्थायीभावः। अङ्गीरसस्तावत् वीररसः। अन्याः अङ्गरसाः। रीतिः पाञ्चालीवैदर्भीयुक्ता। प्रसादश्च  गुणोऽत्र। दिव्यास्त्रलाभः काव्यप्रयोजनम् च॥

1.  श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।

स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥1॥

दुर्योधनेन द्यूते पराजितः युधिष्ठिरः, स्वेन कृत्येन समयानुसारं वनवासं कुर्वन्, द्वैतवने आसीत्। दुर्योधनः राज्ये किं प्रतिष्ठां प्राप्तवान्? प्रजाः तस्मिन् किं स्नेहभावयुक्ताः सन्ति? कथं दुर्योधनः प्रजाभिः सह व्यवहरति? इत्यादिकं विषयं ज्ञातुं कमपि वनेचरं चाररूपेण प्रेषयामास। सः अपि वनेचरः चारो भूत्वा ब्रह्मचारिवेषं धरन् हस्तिनापुरं गत्वा, तत्र अटित्वा, सर्वं ज्ञात्वा, तत्सर्वं युधिष्ठराय निवेदितुं तत्र समाययौ॥1॥

2.  कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः।

न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥2॥

सः वनेचरः चारः, शिष्टाचारसम्पन्नः प्रथमं युधिष्ठिराय प्रणामम् अकरोत्। शत्रुः दुर्योधनः प्रियेण नयेन च युधिष्ठिरस्य राज्यं स्वाधीनं कृतवान् इति तेन चारेण निवेदनीयम् आसीत्। तत्तु परम् अप्रियं युधिष्ठिराय भवेत्। कोऽपि अन्यः ईदृशम् अप्रियं वक्तुम् उत्साहयुक्तः न भवति, अयं तु चारः, चारधर्मं च जानाति। चारस्य मुख्यधर्मः सत्यभाषणत्वं भवति। अप्रियमपि सत्यमेव वक्तव्यम्। परेषां हितं ये इच्छन्ति, ते प्रियमिति कारणेन असत्यवचनं कदापि न वदन्ति। अतः, अयं चारः, अप्रियकथनेन जायमानां मनोवेदनां न प्रप्तवान् ॥2॥

3.  द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।

स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे॥3॥

युधिष्ठिरः दुर्योधनादीन् शत्रून् नाशयितुं समुचितमुपायं प्रयोक्तुं चिन्तयन् आसीत्। युधिष्ठिरसमीपात् जनान् अपसार्य, युधिष्ठिरस्य अनुमतिं लब्ध्वा, एकान्तस्थाने रहसि च, सः चारः वक्तुम् आरभते स्म। स्पष्टा वागेव अर्थम् अन्विष्कर्तुं योग्यता भवति। शब्दसौष्ठवयुक्ता वाक् चारेण प्रोक्ता। राज्ञः पुरतः सः, वृथा प्रजल्पनं विहाय उचितामर्थपुष्टां वाचम् अभाषत। सन्दिग्धस्य अर्थस्य कथनम् अनुचितं तथा अनर्हमिति लोकव्यवहारात्, सः निश्चितम् अर्थमेव अवदत्॥3॥

4.  क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविनः।

अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः॥4॥

स्वदेशे, कस्मिन् स्थाने, कस्मिन् वा कोणे, किं न्याय्यं किं वा अन्याय्यं भवति इति स्वयं राज्ञा ज्ञातुं न शक्यते। अतः राजा तत्र चारान् नियोजयति। चाराः राज्ञां लोचनानि भवन्ति। चक्षर्भ्यां अथवा लोचनाभ्यां निरीक्षणेन यत् कार्यं क्रियते तत्सर्वं चाराः कुर्वन्ति। अतः राजा चारचक्षुः इति कथ्यते। चक्षुस्स्थानीयैः चारैः असत्यकथनेन राजानः न वञ्चनीयाः। अतः हे राजन्, युधिष्ठिर मया उच्यमानं वचनम् अप्रियमपि त्वं श्रोतुं तथा श्रुत्वा सोढुम् अर्हसि। पथ्या वाक् परुषा भवति। यत् मनोहरं वचनं भवति तत् पथ्यं न भवति। पथ्यं तथा मनोहरं च वाक्यं दुर्लभमेव।

अनेन श्लोकेन सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्। प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ इत्यस्य श्लोकस्य सारः ज्ञायते॥4॥

5.  स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते सकिंप्रभुः।

सदाऽनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः॥5॥

यः कश्चित् आप्तः जनः, राजानं सर्वदा हितं न उपदिशति, सः जनं अधमं मित्रं भवति।   कश्चित् राजा यः मित्रैः कृतम् उपदेशं न शृणोति, सः राजा अधमः भवति। यदा राजानः मन्त्रिणश्च ऐकमत्येन भवन्ति, तदा एव, तेषु अनुरागपूर्वकं, सर्वविधाः सम्पदः तत्र निश्चयेन नित्यवासं कुर्वन्ति। अहं चारः भवतः आप्तः, अतः मया सद्विषयः वक्तव्यः एव। मम वचनानुसारं राज्ञा भवता च अनुष्ठातव्यमेव ॥5॥

Tuesday, 22 June 2021

महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्



                                                                            




                    महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्

प्रथमे सर्गे श्लोकाः (1 - 10)

रघुवंशम् -

       महाकविः कालिदासः रघुवंशमहाकाव्यं प्रणीतवान्। तस्मिन् रघुवंशमहाकाव्ये रघोः वंशस्य कथा विरचिता अस्ति। अस्मिन् महाकाव्ये एकोनविंशतिसर्गाः (19 ) सन्ति। अत्र सूर्यवंशे जातानां नृपाणां चरितानि वर्णितानि सन्ति। दिलीपः, रघुः, अजः, दशरथः, रामः, कुशः इत्यादीनां महाराजानां वर्णिताः कथाः क्रमशः भवन्ति। दशमसर्गाद् आरभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता विलसति। अन्तिमसर्गे (19) अग्निवर्णनाम्नः नृपस्य राज्याभिषेकेन सह समाप्यते॥ 

 रघुवंशमहाकाव्ये प्रथमे सर्गे किञ्चित् आस्वादयामः॥

 

1.  वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥1॥

वागर्थौ उत शब्दार्थौ इव परस्परं नित्यसंबद्धौ, तथा एतस्य लोकस्य माता-पितरौ अर्थात् वाग्रूपिणीं पार्वतीदेवीं अर्थरूपिणं भगवन्तं परमेश्वरं च शब्दार्थज्ञानसम्पाद-नाय अहं प्रणमामि इति कालिदासः स्तौति॥1॥

2.  क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।

तितीर्षुः दुस्तरं मोहादुडुपेनास्मि सागरम्॥2॥

अस्मिन् श्लोके रघुवंशस्य महत्त्वं वर्णितमस्ति। सूर्यात् उत्पन्नः रघुवंशः कुत्र? अल्पपदार्थग्रहणसमर्था मम बुद्धिः कुत्र? अज्ञानवशात् अल्पकारेण पोतेन दिर्गमभूतं सागरं तरितुम् अहम् इच्छामि। सूर्यवंशः दुस्तरः महान् समुद्रः, मम अल्पबुद्धिः अल्पपोतः इव अस्ति॥2॥

3.  मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम्।

प्रांशुलभ्ये फले लोभात् इद्बाहुरिव वामनः॥3॥

कालिदासनामा अहं मूर्खः सन् महाकवीनां कीर्तिं प्रार्थयामि। एतादृशं मम कर्म तावत् उन्नतैः पुरुषैः प्राप्तुं योग्याय फलाय, वामनः इव लोभवशात् स्वभुजौ उपरि प्रसार्य प्रयत्नकरणेन इतरेषाम् अपहासपात्रतां प्राप्स्यामि॥3॥

4.  अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥4॥

अथवा वाल्मीकि-व्यास-भासादिभिः पूर्वकविभिः एतस्य सूर्यवंशस्य वाग्रूपं द्वारं संयक् उद्घाटितं भवति। यथा मणिषु वज्रसूच्या कृते रन्ध्रे सूत्रस्य गतिः सरला भवति, तथैव अहमपि पूर्वसूरिभिः कृतं मार्गमनृसृत्य सरलतया सूर्यवंशवर्णनं कर्तुं समर्थो भविष्यामि॥4॥

5.  सोऽहमाजन्मशुद्धानाम् - आफलोदयकर्मणाम्।

आसमुद्रक्षितीशानाम् - आनाकरथवर्त्मनाम्॥5॥ (रघूणामन्वयं वक्ष्ये)

सः तादृशमन्दमतिः अहं तावत्, जन्मनः आरभ्य संस्कारविशेषैः शुद्धानां, कार्यसिद्धिपर्यन्तं स्वकर्मसु निरतानां, समुद्रपर्यन्तं विद्यमानस्य भूमण्डलस्य नायकानां, देवलोकपर्यन्तं स्वकीयैः रथैः गन्तुं समर्थानां रघुवंशीयानां नृपाणां वर्णनं करिष्यामि॥5॥

6.  यथाविधि हुताग्नीनां यथाकामार्चितार्थिनाम्।

यथापराधदण्डानां यथाकालप्रबोधिनाम्॥6॥(रघूणामन्वयं वक्ष्ये)

विधिपूर्वकं यागादिभिः भगवन्तम् अग्निं पूजितवतां, प्रार्थितवतां याचकानां कृते तेषाम् इच्छानुगुणं दानं कृतवतां, दुष्टकर्मेभ्यः तेषाम् अपराधानुसारं दण्डितवताम्, तत्तत्-कालमनुसृत्य दतनुगुणं ज्ञानं प्रप्तवतां रघुवंशीयानां नृपाणाम् अन्वयं वक्तुम् इच्छामि॥6॥

7.  त्यागाय संभृतार्थानां सत्याय मितभाषिणाम्।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥7॥(रघूणामन्वयं वक्ष्ये)

प्रजानां विकसादि कल्याणाय धारण-पोषणादि धर्मरक्षणाय धनसङ्ग्रहं कृतवतां, सत्यधर्मपालनार्थम् अल्पमेव भाषणं कृतवतां, कीर्तिसम्पादनाय अन्यदेशराजान् विजेतुम् इष्टवतां, सन्ततिलाभार्थमेव विवाहबन्धनेन गृहस्थधर्मम् आचरणं कृतवतां रघुवंशीयानां नृपाणाम् अन्वयं कथयिष्यामि॥7॥

8.  शैशवेऽभ्यस्तविद्यानां यौवने विषयिषिणाम्।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥8॥(रघूणामन्वयं वक्ष्ये)

बाल्यावस्थायां विद्याभ्यासं समग्रतया कृतवतां, यौवनावस्थायां भोगादि विषयान् अनुभोक्तुम् इष्टवतां, वृद्धावस्थायां महर्षीणां जीवनवृत्तिम् आश्रितानां, अन्तिमदशायाम् अर्थात् मृत्युसन्दर्भे योगाभ्यासं कृत्वा समाधिविधानेन शरीरत्यागं कृत्वा मोक्षं प्राप्तवतां रघुवंशीयानां नृपाणाम् अन्वयं कथयितुम् इच्छामि॥8॥

9.  रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।

तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥9॥

महाकविकालिदासनामा अहम् अल्पज्ञोऽपि, रघुवंशीयानां नृपाणाम् आजन्मशुद्धि-विधिपूर्वकयज्ञानुष्ठान-परोपकाराय धनसम्पादन-तत्तदवस्थोचितकर्माचरणादि पुण्गुणगणैः निरन्तरं श्रुत्वा, तादृशनृपाणाम् अन्वयम् अर्थात् रघुवंशमहाकाव्यमं चपलबुद्धियुक्तः अथवा विरचनरूपचपलतायै प्रेरितोऽस्मि॥9॥


10. तं सन्तः श्रोतुमर्हन्ति सदसद्-वयक्तिहेतवः।

     हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा॥10॥


आजन्मशुद्धिप्रभृति- तत्तदवस्थोचितकर्माचरणादिगुणयुक्तानां नृपाणाम् अन्वयं, मम काव्यस्य गुण-दोषज्ञाः सज्जनाः श्रोतुं समर्थाः भवन्ति। यतो हि सुवर्णस्य शुद्धिः तथा अशुद्धिः अर्थात् इतरलोहसंयुक्तेन जातः दोषः इत्युक्ते गुणदोषयोः परीक्षा उत संशोधनम् अग्नौ संस्थाप्य एव ज्ञातुं शक्यते। अतः मम काव्यं सुवर्णमिति, तद्दोष-अदोषज्ञाः सन्तः अग्नरूपाः इति कविः व्यञ्जनया सूचयति॥10॥

                                                    


Thursday, 17 June 2021

महाकविना कालिदासेन विरचितं कुमारसम्भवमहाकाव्यम्

 


 

महाकविना कालिदासेन विरचितं कुमारसम्भवमहाकाव्यम्

प्रथमे सर्गे श्लोकाः (1 - 10)

महाकविः कालिदासः –

       संस्कृतसाहित्ये महाकविः कालिदासः स्वाद्भुतरचनाशैल्या प्रथमः तथा उत्तमोत्तमकविः इत्यतः तस्य कविषु स्थानं मुख्यत्वं भवति। अतः एषः कविकुलगुरुः इति च स्तूयते। तस्य कालनिर्णयः बहुसंशयापन्नः, तथाऽपि,  क्रिस्तोः पूर्वं प्रथमशताब्दः इति सर्वेषां विदुषां सम्मतम्। एषः कुमारसम्भवम्, रघुवंशम् इति द्वे महाकाव्ये, मेघलन्देशः, ऋतुसंहारः इति खण्डकाव्ये, विक्रमोर्वशीयम् इति एका नाटिका, मालविकाग्निमित्रम्, अभिज्ञानशाकुन्तलम् इति द्वे नाटके अरचयत्। एतस्य शैली वैदर्भीरीतियुक्ता, प्रीति-मधुर-सान्द्रात्मिका राजते। उपमा कालिदासस्य इत्यनेन उपमालङ्कारनिपुणः एषः इति स्तूयते॥

कुमारसम्भवम् -

       अस्ति कश्चित् वागर्थः इति कालिदेव्याः अनुग्रहानुसारं कुमारसम्भवं नाम महाकाव्यं महाकविना कालिदासेन प्रणीतमिति विदुषाम् अभिप्रायः। कुमारस्य सम्भवः कुमारसम्भवः तमधिकृत्य कृतमिदं काव्यम् अर्थात् सेनानामहं स्कन्धः इति श्रीमद्भगवद्गीतावचनानुसारं जगतः पित्रोः पार्वतीपरमेश्वरयोः कनिष्ठपुत्रस्य षडाननस्य सुब्रह्मण्यस्य सम्भवमधिकृत्य रचितमिदं महाकाव्यमित्यर्थः। व्याख्यानचक्रवर्ती श्रीमल्लिनाथसूरिः एतस्य महाकाव्यस्य अष्टमसर्गपर्यन्तमेव व्याख्यानं कृतवानित्यनेन एतत् महाकाव्यम् अष्टसर्गात्मक(8)मेव। अपि तु नवमसर्गात् सप्तमसर्गपर्यन्तं विद्यमानाः (9-17=9) नवसर्गाः महाकविना कालिदासेन न कृताः इति निश्चयः दृढीकृतः। उपक्रम-उपसंहाररूपेण अष्टसर्गात्मकमेव कुमारसम्भवमहाकाव्यमिति च निर्धारणमपि कृतम्। अस्मिन् काव्ये हिमालयवर्णनम्, तस्य पत्नी मेना, तयोः पुत्रीत्वेन पार्वती देव्याः जन्म, हिमालये भगवतः परमेश्वरस्य तपःकरणम्, पार्वत्याः परमेश्वराय कृता सेवा, तारकासुरेण देवपीडनम्, देवानां ब्रह्मोपगमनम्, देवेभ्यः मन्मथेन कृतं साहाय्यं, पार्वतीपरमेश्वरयोः प्रेमोत्पादनम्, कामदहनम्, पार्वत्या तपश्चरणम्, सप्तर्षिपुरस्सरं परमेश्वरेण पार्वतीं वधूत्वेन वरणम्, हिमालयेन अङ्गीकरणम्, ततशच उमापशुपतिविवाहः, अन्तिमे तयोः दम्पत्योः कामलीलावर्णनम् इत्यनेन क्रमेण  महाकविना कालिदासेन अस्य महाकाव्यस्य विषयवस्तु उपस्थापितम्। कुमारसम्भवमहाकाव्ये प्रथमे सर्गे किञ्चित् आस्वादयामः॥


                         

1.  अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।

पूर्वापरो वारिनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥1॥

स्थावराणां हिमालयः इति श्रीमद्भगवद्गीतानुसारं भगवतः श्रीमन्नारायणस्य विभूतिषु अन्यतमः हिमालयः नाम देवतात्मा तथा पर्वतानां श्रेष्ठः पूर्वदिशि विद्यमानं वङ्गसमुद्रं पश्चिमदिशि विद्यमानं अरेबियसमुद्रं च अभिव्याप्य, अस्याः भूम्याः मानदण्डः इव अद्यापि विलसन् अस्ति ॥1॥

2.  यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।

भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥2॥

पुरा, यथा पृथिव्याः सकाशात् अन्नसम्पादनं कृतवतः वेनमहाराजस्य पुत्रस्य पृथोः उपदेशानुसारं,  सर्वे पर्वताः अपि समेत्य हिमालयं वत्सं कल्पयित्वा, धेनुमिव परिकल्पितायाः पृथिव्याः सकाशात्, मेरुपर्वतं दोग्धारमिव च कल्पयित्वा, क्षीरमिव कल्पितानि विशिष्टरत्नानि तथा ओषधीश्च दोहनमिव कृत्वा प्राप्तवन्तः। तादृशः वत्सभूतः हिमालयः नाम पर्वतः भारतदेशे उत्तरस्यां दिशि विराजन् अस्ति॥2॥

3.  अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।

एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥3॥

बहुविधरत्नानाम् आकरः हिमवान्। तस्य हिमं तावत् सौन्दर्यहानिकरं न भवति। यतो हि चन्द्रस्य किरणेषु शीत-श्वेत-मृदुत्वगुणानां सन्निपाते कलङ्कः नाम देषः यथा न गण्यते तथा हिमालये हिमरूपः दोषः , तस्य बहुविधरत्नगुणगणेषु निमज्जति अर्थात् उपरज्यते उत न दृश्यते। तादृशः दोषरहितः,गुणैः परिपूर्णः हिमालयः नाम पर्वतराजः उत्तरस्यां दिशि विलसन् अस्ति॥3॥

4.  यश्चाप्सरो विभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति।

बलाहकच्छेदविभक्तरागाम् अकालसन्ध्यामिव धातुमत्ताम्॥4॥

हिमालयपर्वते अप्सराः निवसन्ति। ताः सर्वाः स्वकायान् कान्तान् द्रष्टुं, पूर्वं आत्मानम् अलङ्कुर्वन्ति। तदर्थम् आवश्यकाः बहुवर्णयुक्ताः चूर्णरूपाः धातुरसाः, तस्मिन् हिमालये अधिकतया लभ्यन्ते। तादृशधातुरसानां रक्ताः वर्णाः पर्वतशिखरेषु तथा वाया अवकीर्णेषु मेघेषु च दृश्यन्ते। अतः असायन्तनसमयेऽपि सायङ्कालसन्ध्यां सूचयितुं कारणभूताः धातुरसाः आसन्। तादृशधातुरसयुक्तः हिमालयः नाम पर्वतश्रेष्ठः उत्तरस्यां दिशि विराजन् अस्ति॥4॥

5.  आमेखलं सञ्चरतां घनानां छायामधस्सानुगतां निषेव्य।

उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गानि यस्यातपवन्ति सिद्धाः॥5॥

मेघमण्डलादपि उपरि हिमालयः उन्नतः भवति। अतः तस्य हिमालयस्य मध्यदेशे मेघाः सञ्चरन्ति, तेषां मेघानाम् अधः विद्यमानेषु छायात्मकेषु समानस्थलेषु, देववर्गीयाः सिद्धाः इति केचन, छायामनुभूय, तदनन्तरं वृष्टिभिश्च शैत्यादि दुःखमपि अनुभूय, तेन नितरां पीडिताः, आतपतप्तानि शिखराणि आरुह्य सुखमनुभवन्ति। तादृशः उपरि-मध्य-अधाभागैः सर्वाश्रयभूतः हिमालयः नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥5॥

6.  पदं तुषारस्रुतिधौतरक्तं यस्मिन्-अदृष्ट्वापि हतद्विपानाम्।

विदन्ति मार्गं नखरन्ध्रमुक्तैः मुक्ताफलैः केसरिणां किराताः॥6॥

हिमालयपर्वते पर्वताकाराः गजाः अधिकाः सन्ति। द्विपेन्द्र-जीमूत..... इति सूक्त्या गजानां मस्तकेषु मुक्ताफलानि सन्ति इति ज्ञायते। सिंहाः गजान् हत्वा, तेषां मस्तकान् भेदनैः मुक्ताफलानि सिंहानां पादेषु लग्नानि तन्मध्यभागात् विमुक्तानि भवन्ति। तदा गजान् हननादनन्तरं तेषां सिंहानां गमनसमये उद्भूतानां तेषां पदचिह्नानि रक्तमयानि भवन्ति। ततः तुषारप्रवाहेण तेषां सिंहानां रक्तमयपदचिह्नानि धौतानि भवन्ति। अतः किराताः सिंहान् मृगयायै तेषां पदचिह्नानि अदृष्ट्वापि, तेषां पादनखेभ्यः विमुक्तानि तथा विकीर्णानि मुक्ताफलानि दृष्ट्वा, तद्द्वारा, तान्  सिंहान् अन्विष्य हन्तुं मार्गं जानन्ति प्रभवन्ति इत्यर्थः। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विराजन् अस्ति॥6॥

7.  न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।

व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्॥7॥

हिमालयपर्वते विद्याधरसुन्दर्यः इति साक्षराः देवतास्त्रियः सञ्चरन्ति। तस्मिन् पर्वते भूर्जाख्याः वृक्षाः उन्नताः सन्ति। अपि च धातुरसाः अधिकतया लभ्यन्ते। अतः पण्डिताः ताः विद्याधरसुन्दर्यः, धातुरसेन भूर्जवृक्षाणां त्वचि स्वकीयेभ्यः कान्तेभ्यः अनङ्गलेखं कुर्वन्ति। तैः लिखितानि भूर्जत्वक्पत्राणि धातुरसेन शोणीकृतैः अक्षरैः दृश्यन्ते। तानि, वृद्धानां गजानां शरीरेषु विद्यमानाः शोणबिन्दवः इव दृश्यन्ते। अनेन दृश्येन कामिजनानपि उपकरोति अयं हिमालयः। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥7॥

8.  यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन।

उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम्॥8॥

हिमालयपर्वते किन्नराः नाम केचन देववर्गाः सञ्चरन्ति। ते सङ्गीते सदा निमग्नाः भवन्ति। ते दानसमये उच्चैः स्वरैः आलापं कुर्वन्ति, तदा तेषामनुसरणार्थं (गाता यं यं स्वरं गच्छेत् तं तं वंशेन वादयेत्-इति सङ्गीतनियमः) तस्मिन् हिमालये गुहामुखात् आगतेन वायुना, हिमालये विद्यमानानां कीचक इति वंशविशेषाणां रन्ध्राः पूरिताः भवन्ति। अनेन मधुरध्वनिः आगच्छति। सः ध्वनिः, तान् सङ्गीतनिमग्नान् किन्नरान् अनुसरन् तानप्रदानादिभिः उपकारं करोति। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विराजन् अस्ति॥8॥

9.  कपोलकण्डूः करिभिः विनेतुं विघट्टितानां सरलद्रुमानाम्।

यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥9॥

हिमालयपर्वते पर्वताकाराः गजाः अधिकाः सन्ति। तेषां गजानां मस्तकेषु अधः विद्यमानेषु कपोलस्थलेषु कण्ड्वः अर्थात् कण्डूयनावस्थाः भवन्ति। तदा तन्निवारणार्थं ते गजाः, विपुलाकारेषु महावृक्षेषु घट्टणं अर्थात् घर्षणं कुर्वन्ति। हिमालये अत्युन्नताः स्थूलाकाराः सरलवृक्षाः इति केचन देवतरवः सन्ति। तादृशेषु सरलवृक्षेषु गजाः स्वकीयान् मस्तकान् तथा कपोलान् च घट्टयित्वा (विघट्ट्य) कण्डूयनावस्थां दूरीकुर्वन्ति। तेषां गजानां घट्टणेन सरलवृक्षाणां क्षीरभूताः रसाः, ततः स्रवन्ति। अनेन रसप्स्रवणेन उद्भूतः सुगन्धः  हिमवत्पर्वतस्य सानूनि स्थलानि गन्धमयानि करोति। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥9॥

    10. वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिशक्तभासः।

         भवन्ति यत्रौषधयो रजन्यां अतैलपूराः सुरतप्रदीपाः॥10॥

हिमालयपर्वते गुहाः अधिकाः सन्ति। ताः एव वनेचराणां गृहाणि इव भवन्ति। ते वनचराः तादृशेषु गुहारूपगृहेषु वसन्ति। रात्रिसमये तेषां गुहारूपगृहेषु तैलपूराः दीपाः न आवश्यकानि। कुतः इति चेत्, तेषामावासस्थानभूतानां गुहानां द्वारि बह्व्यः ओषधयः वर्तन्ते। तासामोषधीनां प्रभाभिः गुहायाः अन्तर्भागाः प्रकाशन्ते। अतः वनेचराः स्वकीयाभिः वनितासखीभिः सह सुरतानन्दानुभवसमये सुरतप्रदीपाः वस्तुतः न भवन्त्यपि, ओषधयः अतैलपूराः सुरतप्रदीपाः भूत्वा प्रकाशं कुर्वते। तादृशः हिमालयः नाम पर्वतराजः भारते उत्तरदिशि विराजन् अस्ति॥10॥


                                            



 

Friday, 11 June 2021

चाणक्यदृशा क्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम्

 

कौटिल्य इति विख्यातवैभवः विष्णुगुप्तो नामा भारतीयराज नीतिकशास्त्रे अग्रेसरः विलसति। पश्चात् एषः चाणक्य इति च स्तुतः सर्वैः। अनेन रचितमर्थशास्त्रं नाम ग्रन्थरत्नं प्रपञ्चे अत्यन्तं प्रसिद्धमित्यत्र न कोऽपि संशयः। एषः स्वकीयं शास्त्रग्रन्थं पञ्चदश (15) अधिकरणैः, पञ्चाशदधिकशतात्मकैः (150) अधिकारैः, अशीत्यधिकशतात्मकैः (180) प्रकरणैश्च अर्थशास्त्रमिति नामयन् लिलेख। तत्र पञ्चदशसु अधिकरणेषु मण्डलयोनिः इति नामनि षष्ठे अधिकरणे, क्रय-विक्रय-योग्यानां तथा अर्थसम्पादनकारक- वस्तूनां मूलं, तेषां निरीक्षणं, तत्संरक्षणं, तेषां प्रयोजन-मिति विविधविषयाः संयक् चर्चिताः सन्ति।

स्वामी-अमात्य-जनपद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः।

 इति प्रकारप्रकृतिसम्पदधिकृत्य प्रथमं सूत्रम्। प्रकृतयः स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि, एताः सर्वाः परस्पर-मुपकुर्वन्ति, तासां सम्पदः अपेक्षितगुणपुष्कलताः इह उच्यन्ते। लोकयात्राविद् राजानमात्मद्रव्यप्रकृतिसम्पन्नमाश्रयेत इति च आगामिप्रकरणान्तरे उक्तं भवति। अत्र इयमात्मसम्पदेषा प्रकृति-सम्पदिति एषः विभागः अत्र प्रदर्श्यते। स्वाम्यादयः सप्त। एतानि सप्त अन्योन्यसहकारीणि त्रिविष्टब्धकवदन्योन्याश्रयाणि परस्परं प्रकृष्टमुपकुर्वन्तीत्यतः प्रकृतय इत्याख्यायन्ते।

1. स्वामी - अत्र स्वामी अमात्यादीनां पञ्चानां द्रव्यप्रकृतीना मधिपतिः। अत्र स्वामी द्विविधः राजा युवराजश्च।

2. अमात्यः - एते बुद्धिसहायाः। एते च त्रयः, चत्वारः, द्वादश, षोडश तथा विंशतिरिति विविधात्मकत्वेन मन्त्राधिकारे निर्दिष्टास्सन्ति।   

3. जनपदः – ग्रामादि भेदेन अष्टविधः।व्रज-ग्राम-घोष-जानपदेभ्यः गोसमृद्धि-धान्यसमृद्धि-भोजन-वेष्ठन-वसनसौकर्यसमृद्धिभिः आयसम्पादनम्।

 

4. दुर्गानि - दुर्गम् अन्तर्द्वीपमित्यादिना विभक्तम्। राज्यस्य मुख्यानि भवन्ति दुर्गानि। तत्र गमनागमन-  पर्यवेक्षणेन प्रजाभ्यः शुल्काः लभ्यन्ते।

5. कोशः – कोशो हि रत्नसारफल्गुकुप्यभेदाच्चतुर्विधम्। विविधाभ्यः प्रजाभ्यः दैनन्दिनीयव्यवस्थानां  सङ्कल्पने राजकीयसर्वविधप्रबन्धनेन अधोनिर्दिष्ठैः माध्यमैः आयः लभ्यते।

खनिः - जीवनोपायभूतानाम् अमूल्यानां रत्न-काञ्चन-वज्र-रसायण-आङ्गारादीनां वस्तूनामुत्पादनेन आयः लभ्यते।

सेतुः - अनेन शकटादिभिः यानैः पर्यटनव्यवस्थां प्रकल्प्य आयसंवर्धनम्।

वनम् - वनेभ्यः वनान्तरेभ्यश्च विशिष्ठानां चन्दन-अगरु-कर्पूर-जतु-मधु-दारुखण्डादीनां वन्यवस्तूनां वन्यपशूणां च द्वारा आयसंपादनम्।

वणिक्पथः - प्रकृतीनां दैनन्दिनजीवनोपायसहकारभूतानि क्रय-विक्रयात्मकानि पण्यवस्तूनि विपणिभ्यः पण्यवीथिका-भिश्च सम्पाद्यन्ते। अनेन शुल्करूपाः करकूपाः अर्थात्मिकाः आयाः संलभ्यन्ते।

6. दण्डः - दण्डश्चतुर्विधो भवति रथ-गज-तुरग-पदातिभेदात्।

दण्डमूलो हि कोशः।

7. मित्राणि - मित्रं सहज-कृत्रिम-प्रकृतभेदेन त्रिप्रकारम्।

      यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्य-शास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्ष-देवता  इति प्रशंसापात्रं भवति

अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्र-प्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-

द्ष्ट्वा विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।

स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।

अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-

येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।

अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति


(27.05.2021 तमे दिने 03.00 वादनसमये प्रचलितायां अन्तर्राष्ट्रियअन्तर्जालीय-सङ्गोष्ट्यां काचिगूडा, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमान बद्रुका कलावैज्ञानिककला शालायाः संस्कृतविभागे उस्मेनिया विश्वविद्यालयः, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमानात् संस्कृतविभागात् वरिष्ठप्राध्यापिका भूत्वा निवृत्ता डा. पि. शशिरेखा महोदया, विष्णुगुप्त-कौटिल्यनाम्ना महात्मना चाणक्यदृशाक्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम् (Kautilya on Quality control of commodities) इति शीर्षके उपन्यासं कृतवती। तच्छ्रुत्वा तदधिकृत्य मया स्वकीयया वाचा लिखितः अयं व्यासः। अस्य कार्यक्रमस्य निर्देशकः श्रीमान्, डा.एम. श्रीनिवासः, उपप्रांशुपालः तथा संस्कृतविभागाध्यक्षः। अस्य कार्यक्रमस्य संयोजिका प्राध्यापिका श्रीमती. डा. सि. भवानी त्रिपुरा ॥) 

 

ZEALOUS ARJUNA

  Zealous Arjuna: The Warrior of Focus and Devotion In Sanskrit literature, Arjuna stands as the embodiment of zeal (utsāha), discipline...