महाकविना कालिदासेन
विरचितं कुमारसम्भवमहाकाव्यम्
प्रथमे सर्गे
श्लोकाः (1 - 10)
महाकविः कालिदासः –
संस्कृतसाहित्ये महाकविः कालिदासः स्वाद्भुतरचनाशैल्या प्रथमः
तथा उत्तमोत्तमकविः इत्यतः तस्य कविषु स्थानं मुख्यत्वं भवति। अतः एषः कविकुलगुरुः
इति च स्तूयते। तस्य कालनिर्णयः बहुसंशयापन्नः, तथाऽपि, क्रिस्तोः पूर्वं प्रथमशताब्दः इति सर्वेषां
विदुषां सम्मतम्। एषः कुमारसम्भवम्, रघुवंशम् इति द्वे महाकाव्ये, मेघलन्देशः,
ऋतुसंहारः इति खण्डकाव्ये, विक्रमोर्वशीयम् इति एका नाटिका, मालविकाग्निमित्रम्,
अभिज्ञानशाकुन्तलम् इति द्वे नाटके अरचयत्। एतस्य शैली वैदर्भीरीतियुक्ता,
प्रीति-मधुर-सान्द्रात्मिका राजते। उपमा कालिदासस्य इत्यनेन उपमालङ्कारनिपुणः एषः
इति स्तूयते॥
कुमारसम्भवम् -
अस्ति कश्चित् वागर्थः इति कालिदेव्याः अनुग्रहानुसारं
कुमारसम्भवं नाम महाकाव्यं महाकविना कालिदासेन प्रणीतमिति विदुषाम् अभिप्रायः।
कुमारस्य सम्भवः कुमारसम्भवः तमधिकृत्य कृतमिदं काव्यम् अर्थात् सेनानामहं स्कन्धः
इति श्रीमद्भगवद्गीतावचनानुसारं जगतः पित्रोः पार्वतीपरमेश्वरयोः कनिष्ठपुत्रस्य
षडाननस्य सुब्रह्मण्यस्य सम्भवमधिकृत्य रचितमिदं महाकाव्यमित्यर्थः।
व्याख्यानचक्रवर्ती श्रीमल्लिनाथसूरिः एतस्य महाकाव्यस्य अष्टमसर्गपर्यन्तमेव
व्याख्यानं कृतवानित्यनेन एतत् महाकाव्यम् अष्टसर्गात्मक(8)मेव। अपि तु नवमसर्गात्
सप्तमसर्गपर्यन्तं विद्यमानाः (9-17=9) नवसर्गाः महाकविना कालिदासेन न कृताः इति
निश्चयः दृढीकृतः। उपक्रम-उपसंहाररूपेण अष्टसर्गात्मकमेव कुमारसम्भवमहाकाव्यमिति च
निर्धारणमपि कृतम्। अस्मिन् काव्ये हिमालयवर्णनम्, तस्य पत्नी मेना, तयोः
पुत्रीत्वेन पार्वती देव्याः जन्म, हिमालये भगवतः परमेश्वरस्य तपःकरणम्,
पार्वत्याः परमेश्वराय कृता सेवा, तारकासुरेण देवपीडनम्, देवानां ब्रह्मोपगमनम्,
देवेभ्यः मन्मथेन कृतं साहाय्यं, पार्वतीपरमेश्वरयोः प्रेमोत्पादनम्, कामदहनम्,
पार्वत्या तपश्चरणम्, सप्तर्षिपुरस्सरं परमेश्वरेण पार्वतीं वधूत्वेन वरणम्,
हिमालयेन अङ्गीकरणम्, ततशच उमापशुपतिविवाहः, अन्तिमे तयोः दम्पत्योः
कामलीलावर्णनम् इत्यनेन क्रमेण महाकविना
कालिदासेन अस्य महाकाव्यस्य विषयवस्तु उपस्थापितम्। कुमारसम्भवमहाकाव्ये प्रथमे सर्गे
किञ्चित् आस्वादयामः॥
1. अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरो
वारिनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥1॥
स्थावराणां हिमालयः इति
श्रीमद्भगवद्गीतानुसारं भगवतः श्रीमन्नारायणस्य विभूतिषु अन्यतमः हिमालयः नाम
देवतात्मा तथा पर्वतानां श्रेष्ठः पूर्वदिशि विद्यमानं वङ्गसमुद्रं पश्चिमदिशि
विद्यमानं अरेबियसमुद्रं च अभिव्याप्य, अस्याः भूम्याः मानदण्डः इव अद्यापि विलसन्
अस्ति ॥1॥
2.
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि
महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥2॥
पुरा, यथा पृथिव्याः सकाशात्
अन्नसम्पादनं कृतवतः वेनमहाराजस्य पुत्रस्य पृथोः उपदेशानुसारं, सर्वे पर्वताः अपि समेत्य हिमालयं वत्सं
कल्पयित्वा, धेनुमिव परिकल्पितायाः पृथिव्याः सकाशात्, मेरुपर्वतं दोग्धारमिव च
कल्पयित्वा, क्षीरमिव कल्पितानि विशिष्टरत्नानि तथा ओषधीश्च दोहनमिव कृत्वा
प्राप्तवन्तः। तादृशः वत्सभूतः हिमालयः नाम पर्वतः भारतदेशे उत्तरस्यां दिशि विराजन्
अस्ति॥2॥
3.
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो
गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥3॥
बहुविधरत्नानाम् आकरः
हिमवान्। तस्य हिमं तावत् सौन्दर्यहानिकरं न भवति। यतो हि चन्द्रस्य किरणेषु
शीत-श्वेत-मृदुत्वगुणानां सन्निपाते कलङ्कः नाम देषः यथा न गण्यते तथा हिमालये
हिमरूपः दोषः , तस्य बहुविधरत्नगुणगणेषु निमज्जति अर्थात् उपरज्यते उत न दृश्यते।
तादृशः दोषरहितः,गुणैः परिपूर्णः हिमालयः नाम पर्वतराजः उत्तरस्यां दिशि विलसन्
अस्ति॥3॥
4.
यश्चाप्सरो विभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति।
बलाहकच्छेदविभक्तरागाम्
अकालसन्ध्यामिव धातुमत्ताम्॥4॥
हिमालयपर्वते अप्सराः
निवसन्ति। ताः सर्वाः स्वकायान् कान्तान् द्रष्टुं, पूर्वं आत्मानम्
अलङ्कुर्वन्ति। तदर्थम् आवश्यकाः बहुवर्णयुक्ताः चूर्णरूपाः धातुरसाः, तस्मिन्
हिमालये अधिकतया लभ्यन्ते। तादृशधातुरसानां रक्ताः वर्णाः पर्वतशिखरेषु तथा वाया
अवकीर्णेषु मेघेषु च दृश्यन्ते। अतः असायन्तनसमयेऽपि सायङ्कालसन्ध्यां सूचयितुं
कारणभूताः धातुरसाः आसन्। तादृशधातुरसयुक्तः हिमालयः नाम पर्वतश्रेष्ठः उत्तरस्यां
दिशि विराजन् अस्ति॥4॥
5.
आमेखलं सञ्चरतां घनानां छायामधस्सानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते
शृङ्गानि यस्यातपवन्ति सिद्धाः॥5॥
मेघमण्डलादपि उपरि हिमालयः
उन्नतः भवति। अतः तस्य हिमालयस्य मध्यदेशे मेघाः सञ्चरन्ति, तेषां मेघानाम् अधः
विद्यमानेषु छायात्मकेषु समानस्थलेषु, देववर्गीयाः सिद्धाः इति केचन, छायामनुभूय,
तदनन्तरं वृष्टिभिश्च शैत्यादि दुःखमपि अनुभूय, तेन नितरां पीडिताः, आतपतप्तानि
शिखराणि आरुह्य सुखमनुभवन्ति। तादृशः उपरि-मध्य-अधाभागैः सर्वाश्रयभूतः हिमालयः
नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥5॥
6.
पदं तुषारस्रुतिधौतरक्तं यस्मिन्-अदृष्ट्वापि हतद्विपानाम्।
विदन्ति मार्गं
नखरन्ध्रमुक्तैः मुक्ताफलैः केसरिणां किराताः॥6॥
हिमालयपर्वते पर्वताकाराः
गजाः अधिकाः सन्ति। द्विपेन्द्र-जीमूत..... इति सूक्त्या गजानां मस्तकेषु
मुक्ताफलानि सन्ति इति ज्ञायते। सिंहाः गजान् हत्वा, तेषां मस्तकान् भेदनैः मुक्ताफलानि
सिंहानां पादेषु लग्नानि तन्मध्यभागात् विमुक्तानि भवन्ति। तदा गजान् हननादनन्तरं
तेषां सिंहानां गमनसमये उद्भूतानां तेषां पदचिह्नानि रक्तमयानि भवन्ति। ततः
तुषारप्रवाहेण तेषां सिंहानां रक्तमयपदचिह्नानि धौतानि भवन्ति। अतः किराताः
सिंहान् मृगयायै तेषां पदचिह्नानि अदृष्ट्वापि, तेषां पादनखेभ्यः विमुक्तानि तथा
विकीर्णानि मुक्ताफलानि दृष्ट्वा, तद्द्वारा, तान् सिंहान् अन्विष्य हन्तुं मार्गं जानन्ति
प्रभवन्ति इत्यर्थः। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विराजन् अस्ति॥6॥
7.
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति
विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्॥7॥
हिमालयपर्वते
विद्याधरसुन्दर्यः इति साक्षराः देवतास्त्रियः सञ्चरन्ति। तस्मिन् पर्वते
भूर्जाख्याः वृक्षाः उन्नताः सन्ति। अपि च धातुरसाः अधिकतया लभ्यन्ते। अतः
पण्डिताः ताः विद्याधरसुन्दर्यः, धातुरसेन भूर्जवृक्षाणां त्वचि स्वकीयेभ्यः
कान्तेभ्यः अनङ्गलेखं कुर्वन्ति। तैः लिखितानि भूर्जत्वक्पत्राणि धातुरसेन
शोणीकृतैः अक्षरैः दृश्यन्ते। तानि, वृद्धानां गजानां शरीरेषु विद्यमानाः
शोणबिन्दवः इव दृश्यन्ते। अनेन दृश्येन कामिजनानपि उपकरोति अयं हिमालयः। तादृशः
हिमालयः नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥7॥
8.
यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति
किन्नराणां तानप्रदायित्वमिवोपगन्तुम्॥8॥
हिमालयपर्वते किन्नराः नाम
केचन देववर्गाः सञ्चरन्ति। ते सङ्गीते सदा निमग्नाः भवन्ति। ते दानसमये उच्चैः स्वरैः
आलापं कुर्वन्ति, तदा तेषामनुसरणार्थं (गाता यं यं स्वरं गच्छेत् तं तं वंशेन
वादयेत्-इति सङ्गीतनियमः) तस्मिन् हिमालये गुहामुखात् आगतेन वायुना, हिमालये
विद्यमानानां कीचक इति वंशविशेषाणां रन्ध्राः पूरिताः भवन्ति। अनेन मधुरध्वनिः
आगच्छति। सः ध्वनिः, तान् सङ्गीतनिमग्नान् किन्नरान् अनुसरन् तानप्रदानादिभिः उपकारं
करोति। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विराजन् अस्ति॥8॥
9.
कपोलकण्डूः करिभिः विनेतुं विघट्टितानां सरलद्रुमानाम्।
यत्र
स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥9॥
हिमालयपर्वते पर्वताकाराः गजाः
अधिकाः सन्ति। तेषां गजानां मस्तकेषु अधः विद्यमानेषु कपोलस्थलेषु कण्ड्वः अर्थात्
कण्डूयनावस्थाः भवन्ति। तदा तन्निवारणार्थं ते गजाः, विपुलाकारेषु महावृक्षेषु
घट्टणं अर्थात् घर्षणं कुर्वन्ति। हिमालये अत्युन्नताः स्थूलाकाराः सरलवृक्षाः इति
केचन देवतरवः सन्ति। तादृशेषु सरलवृक्षेषु गजाः स्वकीयान् मस्तकान् तथा कपोलान् च
घट्टयित्वा (विघट्ट्य) कण्डूयनावस्थां दूरीकुर्वन्ति। तेषां गजानां घट्टणेन
सरलवृक्षाणां क्षीरभूताः रसाः, ततः स्रवन्ति। अनेन रसप्स्रवणेन उद्भूतः
सुगन्धः हिमवत्पर्वतस्य सानूनि स्थलानि
गन्धमयानि करोति। तादृशः हिमालयः नाम पर्वतराजः उत्तरदिशि विलसन् अस्ति॥9॥
10. वनेचराणां
वनितासखानां दरीगृहोत्सङ्गनिशक्तभासः।
भवन्ति यत्रौषधयो रजन्यां अतैलपूराः
सुरतप्रदीपाः॥10॥
हिमालयपर्वते गुहाः अधिकाः
सन्ति। ताः एव वनेचराणां गृहाणि इव भवन्ति। ते वनचराः तादृशेषु गुहारूपगृहेषु
वसन्ति। रात्रिसमये तेषां गुहारूपगृहेषु तैलपूराः दीपाः न आवश्यकानि। कुतः इति
चेत्, तेषामावासस्थानभूतानां गुहानां द्वारि बह्व्यः ओषधयः वर्तन्ते। तासामोषधीनां
प्रभाभिः गुहायाः अन्तर्भागाः प्रकाशन्ते। अतः वनेचराः स्वकीयाभिः वनितासखीभिः सह
सुरतानन्दानुभवसमये सुरतप्रदीपाः वस्तुतः न भवन्त्यपि, ओषधयः अतैलपूराः
सुरतप्रदीपाः भूत्वा प्रकाशं कुर्वते। तादृशः हिमालयः नाम पर्वतराजः भारते
उत्तरदिशि विराजन् अस्ति॥10॥
No comments:
Post a Comment