वेदवेदान्ताध्ययनशोधसंस्थानेन संस्कृतभारतीविद्वत्परिषदः संयुक्ततत्वावधाने 1-5-2021 तः 15-05-2021 पर्यन्तं, (अपराह्णे 3-00 तः 5-00 समये)
पञ्चदशदिवसीया अन्तर्जालीया "श्रीमद्भागवतपुराणकार्यशाला" श्रीविजयध्वज-तीर्थश्रीचरणानां पुण्यतिथिमुपलक्ष्य समायोजितमासीत्।
Ø तत्र प्रथमे दिने
समारोह-कार्यक्रमे पेशावर्मठाध्यक्षाणां तीर्थपादानामाशिषः सर्वान् पुनन्ति स्म।
संस्कृतभारतीमुख्यप्रमुखः दिनेशकामतः, श्रीनिवास वरकेटि, तिरुमलाकुलकर्णी
प्रभृतयाः प्रमुखाः कार्यशालोद्घाटन सन्दर्भानु गुणम् उपोद्घातवचोभिः श्रोतॄन्
प्रैरयन्।
Ø द्वितीयदिने सहस्रावधानिनः
श्रीमाडुगल नागफणिशर्माणः श्रीमद्भागवत प्रथमस्कन्धस्य नैमिशारण्ये
शौनकादिमुनिभिः पृष्टः सूतः प्रतिवदति, नारद व्याससंवादः,
अश्वत्थाम्नाकृतपञ्चपाण्डवपुत्रवधः, परीक्षित्जननं-तस्य राज्य लाभः, दिग्विजयः,
मुनिकुमारेण शप्तः, भगवतश्शुकागमनप्रतीक्षा इति सारां शं वितरणं चक्रुः। तदनन्तरं
श्रीमधुसूदनपेन्ना महोदयः श्रीमद्भागवतीयां सर्वप्रथमां
श्रीधरीव्याख्यामधिकृत्य तस्य महत्त्वं तत्रत्य दर्शनविशयाञ्च विश दीकृत्य
व्याख्याति स्म।
Ø तृतीये दिने
श्रीमता के. रघुपति उपाध्यायमहोदयेन ब्रह्माण्जनिर्माणवर्णनं, भगवतो
विराट्स्वरूपनर्मनं, परीक्षितः प्रश्नाः, पुराणलक्षणादिभिः विविध विषयैस्साकं
द्वितीयस्कन्धविमर्शं व्याख्याति स्म। तदनन्तरं वैष्णवतोषिणी व्याख्यां स्वीकृत्य
डा. श्रीमान् राकेशदासः गौडीयमतसिद्धान्ताविष्करणं संयक् प्रतिपादयामास।
Ø चतुर्थे दिने
श्रीमता अमृतेशाचार्यवर्येण विदुरस्य उद्धवेन सह समागमः, श्रीकृष्णबाललीलावर्णनं,
यदूनां प्रभासक्षेत्रगमनं, हिरण्याक्षहिरण्यकशिपो र्जन्म, कपिलावतारः
भक्तियागरहस्यमित्यादयः तृतीयस्कन्धसारः
सङ्ग्रहः अनु गृहीतः। तदनन्तरं दोर्बलप्रभाकरशर्मभिः वीरराघवीयव्याख्यांशाः प्रति
-पादिताः।
Ø पञ्चमे दिने
श्रीमता हेच्.के.सुरेशाचार्येण भगवतः श्रीमन्नारायणस्य तपः -करणं, इन्द्रेण
कृतम तपःप्रतिहननं, तदात्वे ऊर्वशीजन्म, तामुद्दिश्य इन्द्र याचनं, दक्षयागविषयः वेनस्य
ऊरुमथनान्निषादोत्पत्तिः (अद्यतनीय क्लो निङ्प्रक्रिया) इत्यादयः चतुर्थस्कन्धसारः
प्रतिपादिताः। तदनन्तरं श्रीमता वि.एन्.विजयीन्द्राचार्येण
यादुपत्यव्याख्यानविमर्शः कृतः।
Ø षष्ठे दिने श्रीमता
डा. रङ्गरामानुजाचार्येण प्रियव्रत-जडभरताख्यानादिभिः सह पञ्चमस्कन्धसारः
प्रशाधितः। तदनन्तरं श्रीमता जयकान्तशर्मणा सारार्थ दर्शिनीव्याख्याविषयाः
वितरिताः।
Ø सप्तमे दिने
श्रीमता रामसलाहिमहोदयेण नारायणशब्दविमर्श-अजामिलो पाख्यानादिभिः सह षष्ठस्कन्धविषयाः
विशदीकृताः। तदनन्तरं श्रीमता श्रीकान्तपुरोहितमहाशयेण श्रीमद्भागवततात्पर्यनिर्णयविमर्शात्मकाः
विषयाः विवर्णिताः।
Ø अष्टमे दिने
श्रीमान् श्रीरामविट्टलाचार्यः नवविधभक्ति-प्रह्लादोपाख्यान-विनाशकाले
विपरीतबुद्धिरितिनीतियुक्ताविचारणादीन् विषयान् प्रतिपादयामास। तदनन्तरं
श्रीमद्भागवतोपाख्यानानां श्रीस्वामिनारायण वचनामृते उल्लेखात्मकविचाराः श्रीमता
श्रीभद्रेश्वरस्वामिना विस्तारिताः।
Ø नवमे दिने
पैतृकदीक्षाचार्यः गजेन्द्रमोक्षाख्यानादिसहितं अष्टमस्कन्ध सङ्ग्रहमनुगृहाण।
तदनन्तरं डा. पि.पि. श्रीधरमहाशयेण यादविन्द्रव्याख्या विमर्शिता।
Ø दशमे दिने श्रीमद्भिः
श्रीविद्याप्रसन्नतीर्थश्रीपादैः नवमस्कन्धसारः प्रशाधिताः, ततः श्रीमता
डा.प्रदीपसिंहाचार्येण ïIv‘ÉacayR> svaRi[ zaSÇai[ s<ygxITy Éagvtpura[<
muhumuRhurnusNxanmk raet!, @vmnusNxay bhuz> s> pae;[< tdnu¢h> #it Éagvtpura[vaKySy
Aalaecnya puiòmagRm! #it Svmt< àitpaidtvan!, tSy mtSy zuÏaÖEtm! #it
namaNtrmiSt,
@k< zaSÇ< devkIpuÇgItm! @kae dev> devkIpuÇ
@v,
@kae mNÇ> tSy namain yain kmaRPyek< tSy devSy seva.
#it ðaekaeidtàma[en Svmt< †F< àitóapyamas. इतीत्थं श्रीमत्कृष्णवल्लभा चार्यकृता
सुबोधिनीति श्रीमद्भागवतीया व्याख्या विचारिता।
Ø एकादशदिने
दशमस्कन्धस्य पूर्वार्धविषयाः सर्वे श्रीमद्भिः श्रीविद्याधीश-तीर्थश्रीपादैः
सत्यव्रतं सत्यपरमिति यदा भगवान् श्रीमन्नारायणः कृष्णांश -त्वेन अवततार तदा
देवबृन्दैः स्तूयमाणेन एकेन श्लोकेनैव बीजकोशरूपेण अनुगृहीताः। ततः श्रीमता
श्रीबदरीनारायणाचार्येण सत्यधर्मीयव्याख्या विचारिता।
Ø द्वादशदिने दशमस्कन्धस्य
उत्तरार्धविषयाः रासलीला हृद्रोगशमनार्थं चात्म लाभाय, युद्धानि अधर्मनाशाय नतु
स्वार्थसाधनाय, जरासन्धकृतमाक्रमणं, मुचुकुन्दोपाख्यानमित्यादयांशाः सर्वे
पवर्पाइण्ट्प्रेसेन्टेषन् रूपेण श्रीमता अष्टावधानिना श्रीरामकृष्मपेजत्तायेण द्रष्टृ-श्रोतृजनानां
विशयनिवारणपूर्वकं विमर्शिताः। अनन्तरं डा. श्रीहरिवाळ्वेकरः भगवन्तरायटिप्पणीं
आविष्क्रियाञ्चकार।
Ø त्रयोदशदिने
श्रीमान् डा.के. उन्नीकृष्णन् महोदयः एकादशस्कन्धविषयान् प्रतिपादयामास। ततः डा.
एन्.वादिराजाचार्यः मन्दनन्दिनीव्याख्यां विच चार।
Ø चतुर्दशदिने
श्रीमता दिनेश.पि.रसाल महाशयेण द्वादशस्कन्धसारः
व्याख्यातः।
तदनन्तरं डा.ए. वि. नागसम्पिगे महोदयः विजयध्वजीय व्याख्यां विमर्शयामास।
एवं प्रतिदिनम् एको विद्वान् एकैकस्य स्कन्दस्य सारांशं
कथयन्, आधुनिके जगति तस्य
साम्प्रतिकतां च प्रत्यपादयत्। अपरश्च श्रीमद्भागवतमधिकृत्य
नानामताचार्यैः विद्वद्भिश्च विरचितेषु व्याख्यानेषु अन्यतममादाय विमर्शं करोति। वयं सर्वे अध्येतारः श्रोतारश्च भूत्वा, कार्यशालायामस्यां भागं गृहीत्वा कार्यशालायाः नितरां श्रीद्भागवतपुराणामृतसागराम्भसि
चिरं मग्नाः भूत्वा, आध्यात्मिकसन्तोषं प्राप्य, आनन्दमन्वभवम्।
चतुर्दशसु विद्यासु पुराणमप्येकविद्या। वेदार्थादधिकं
मन्येपुराणार्थं वरानने इति पार्वतीं प्रति भगवत्परमेश्वरस्य वचनम्। पुराण
साहित्ये सर्वाधिकं प्रचलति श्रीमद्भागवतपुराणमेव। अस्य विविधाः संस्कृतटीकाः विविधासु भाषासु रूपान्त राणि च वर्तन्ते। अस्मिन् पुराणे भगवान् श्रीकृष्णः परब्रह्मरूपेण प्रतिपादितः
विद्यते। अत्र मिताः द्वादशस्कन्धाः, मिताः 335 अध्यायाः, तथामिताः 1800
श्लोकाश्च उपलभ्यन्ते। अत्र पुराणोत्पत्ति-विराट्- पुरुष-देवोपासना-सृष्टिक्रम- उद्धव विदुरसंवादमुखेन
श्रीकृष्णलीला-भूगोल-समुद्रमथन-सूर्यचन्द्रवंशीयराजानां विवरणमित्यादयः विवेचिताः
सन्ति। “विद्यावतां कुरु भागवते परीक्षा ” इति प्रसिद्धाभाणकेन श्रीमद्भागवतपुराणस्य
विषयगाम्भीर्यं वैशिष्ट्यं अनुमीयते तथा
अनुमन्यते च।
आधुनिकैर्हि स्थूलदृष्ट्या
समक्षं दृश्यमानस्य स्थूलजगतो वर्णनं क्रियते। महर्षिभिस्तु
योगशक्त्या मनसा प्रत्यक्षीक्रियमाणानां सूक्ष्मलोकानां चित्रणं विहितमित्युभयत्र
सामयाभावः सुस्पष्ट एव। तस्मात् भगवतः स्थूलरूपा-
नुध्यानार्थमेव र्विराट्ब्रह्माण्डवर्णनमिति नात्र विसंवादः।
तथा च शुकेनाप्युक्तम् – “स्थूले भगवतो रूपे
मनस्सन्धारयेत् धिया” इति। न चैतावता पुराणानाम् अप्रामाण्यं
शङ्क्यम्, पयसामर्णव इव वचसां परमात्मन्येव पर्यवसानमिति
कृत्वा परमात्मपरतया पौराणिकवर्णनस्य सर्वथा प्रमाणभूतत्वोपगमात्।। इति गीता-मुद्रणालयप्रकाशकेन
घनश्यामदासेनोक्तं स्मार्यं भवति॥
भक्तिमात्रप्रधानं हि
श्रीमद्भागवतपुराणम्। भक्तिस्तावत् कलौ युगे बलीया वर्तते।
भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथमिति चेत् श्रीमद्भागवतपुराणं
उत्तरं ददाति। कर्मबन्धनमोचना भक्तिरेकं साधनं भवति। यतो
हि भक्तिस्साधना रूपा नतु साध्य रूपा। साध्यं तावत् जीवात्मापरमात्मनोरैक्यमिति। सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति भगवद्वचनं मनसि निधाय, श्रवण-कीर्तन-
स्मरण- पादसेवन-अर्चन- वन्दन-दास्य- सख्य-आत्मनिवेदनमिति नवविधभक्त्या भगवान् श्रीमन्नारायणः स्तोतव्यः इति श्रीमद्भागवतपुराणस्य बीजनिकषांशः। यतो हि उच्यते – न तपोभिर्न
वेदैश्च न ज्ञानेनापि कर्मणा। हरिर्हि साध्यते भक्त्या इति श्रीमद्भागवतपुराणमाहात्म्यद्वितीयाध्याये सूचिता।
किं बहुणा, कलौ भागवती वार्ता भवरोगविनाशिनी इत्युक्त्वा समापयामि ॥
No comments:
Post a Comment