Wednesday, 30 June 2021

महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्



                     

        महाकविना भारविणा कृतं किरातार्जुनीयमहाकाव्यम्

प्रथमे सर्गे श्लोकाः (1 - 5)

महाकविः भारविः -

संस्कृतभाषासाहित्ये महाकवेः भारवेः स्थानम् अतीव महत्त्वपूर्णम् अस्ति। भारवेः रचनाशैली अन्येभ्यः गरीयसी, अन्यकवीनां मार्गदर्शिका, मनोहरतमा, गाम्भीरार्थयुक्ता, नारिकेलपाकात्मिका इति स्तूयमानत्वात् भारवेः अर्थगौरवम् इति विद्वज्जनैः सदा संस्तूयते। एतत् भारवेः उक्त्या एव - स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् इति समर्थ्यते। इतोऽपि भारवेः रचनाशैली विविक्तवर्णाभरणा, श्रवणसुखदा, शत्रूणां हृदयान्यपि प्रसादयन्ती, प्रसन्नगम्भीरपदा सरस्वती प्रवर्तते। भारवेः पदप्रयोगः पाणिनिव्याकरणपरिपुष्टः, शुद्धार्थपूर्णः, गम्भीरशैलीयुक्तश्च वर्तते। अस्य किरातार्जुनीयमहाकाव्ये केवलं सर्गत्रयपठनेनैव कोऽपि पाठको पठितस्सयात् सः संस्कृतभाषायां महापण्डितो जायेत इत्यत्र न कोऽपि संशयः॥

किरातार्जुनीयम् -

भारवेरर्थगौरवम् इत्यनुसारं भारवेः वाणी अर्थगौरवपरिपूर्णा तथा स्वल्पैरपि शब्दैः विपुलगूढार्थप्रकाशिका इति प्रतीयते। कालिदासापेक्षया द्राक्षापाकमाधुर्यताहीनापि परं प्रसाद-दीप्ति-गुणयुक्ता तथा रस-भाव-ध्वन्यलङ्कारादिभिः पुष्टिता नारिकेल-पाकघट्टिता भवति भारवेः वाणी किरातार्जुनीयमहाकाव्ये। अष्टादशसर्गात्मकं महाकाव्यमेतत् किरातार्जुनीयम्। सामाजिक-राजनीतिकविषयभरिते, नीति-सुभाषितादिसमलङ्कृते, चित्रकाव्ये चाद्भुतनैपुण्यं समाविश्य महाकविः भारविः चित्ताकर्षकं किरातार्जुनीयं महाकाव्यमरचयत्। अस्य महाकाव्यस्य नायकः धीरोदात्तः अर्जुनः। प्रतिनायकश्च किरातपतिः भगवान् शङ्करः। स्वाग्रजेन युधिष्ठिरेण समादिष्टः अर्जुनः, भगवन्तं शङ्करमुद्दिश्य तपः कृत्वा, तेन प्रसादितेन पाशुपतास्त्रेण प्रतिनिवृत्य कौरवपाण्डवयुद्धे विजयम् समवाप। अतः पाशुपतास्त्रवरणं पशुपतेः सकाशं कथं प्रवृत्तमिति अस्मिन् महाकाव्ये भारविना संयक् विस्तृतम्। अर्जुनशङ्करौ आलम्बनविभावौ। द्रौपदीवाक्यानि उद्दीपनानि। अर्जुनशङ्करयोः धनुराकर्षणादयः अनुभावाः। धृत्यादयः स्थायीभावाः। उत्साहोऽपि  स्थायीभावः। अङ्गीरसस्तावत् वीररसः। अन्याः अङ्गरसाः। रीतिः पाञ्चालीवैदर्भीयुक्ता। प्रसादश्च  गुणोऽत्र। दिव्यास्त्रलाभः काव्यप्रयोजनम् च॥

1.  श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।

स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥1॥

दुर्योधनेन द्यूते पराजितः युधिष्ठिरः, स्वेन कृत्येन समयानुसारं वनवासं कुर्वन्, द्वैतवने आसीत्। दुर्योधनः राज्ये किं प्रतिष्ठां प्राप्तवान्? प्रजाः तस्मिन् किं स्नेहभावयुक्ताः सन्ति? कथं दुर्योधनः प्रजाभिः सह व्यवहरति? इत्यादिकं विषयं ज्ञातुं कमपि वनेचरं चाररूपेण प्रेषयामास। सः अपि वनेचरः चारो भूत्वा ब्रह्मचारिवेषं धरन् हस्तिनापुरं गत्वा, तत्र अटित्वा, सर्वं ज्ञात्वा, तत्सर्वं युधिष्ठराय निवेदितुं तत्र समाययौ॥1॥

2.  कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः।

न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥2॥

सः वनेचरः चारः, शिष्टाचारसम्पन्नः प्रथमं युधिष्ठिराय प्रणामम् अकरोत्। शत्रुः दुर्योधनः प्रियेण नयेन च युधिष्ठिरस्य राज्यं स्वाधीनं कृतवान् इति तेन चारेण निवेदनीयम् आसीत्। तत्तु परम् अप्रियं युधिष्ठिराय भवेत्। कोऽपि अन्यः ईदृशम् अप्रियं वक्तुम् उत्साहयुक्तः न भवति, अयं तु चारः, चारधर्मं च जानाति। चारस्य मुख्यधर्मः सत्यभाषणत्वं भवति। अप्रियमपि सत्यमेव वक्तव्यम्। परेषां हितं ये इच्छन्ति, ते प्रियमिति कारणेन असत्यवचनं कदापि न वदन्ति। अतः, अयं चारः, अप्रियकथनेन जायमानां मनोवेदनां न प्रप्तवान् ॥2॥

3.  द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।

स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे॥3॥

युधिष्ठिरः दुर्योधनादीन् शत्रून् नाशयितुं समुचितमुपायं प्रयोक्तुं चिन्तयन् आसीत्। युधिष्ठिरसमीपात् जनान् अपसार्य, युधिष्ठिरस्य अनुमतिं लब्ध्वा, एकान्तस्थाने रहसि च, सः चारः वक्तुम् आरभते स्म। स्पष्टा वागेव अर्थम् अन्विष्कर्तुं योग्यता भवति। शब्दसौष्ठवयुक्ता वाक् चारेण प्रोक्ता। राज्ञः पुरतः सः, वृथा प्रजल्पनं विहाय उचितामर्थपुष्टां वाचम् अभाषत। सन्दिग्धस्य अर्थस्य कथनम् अनुचितं तथा अनर्हमिति लोकव्यवहारात्, सः निश्चितम् अर्थमेव अवदत्॥3॥

4.  क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविनः।

अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः॥4॥

स्वदेशे, कस्मिन् स्थाने, कस्मिन् वा कोणे, किं न्याय्यं किं वा अन्याय्यं भवति इति स्वयं राज्ञा ज्ञातुं न शक्यते। अतः राजा तत्र चारान् नियोजयति। चाराः राज्ञां लोचनानि भवन्ति। चक्षर्भ्यां अथवा लोचनाभ्यां निरीक्षणेन यत् कार्यं क्रियते तत्सर्वं चाराः कुर्वन्ति। अतः राजा चारचक्षुः इति कथ्यते। चक्षुस्स्थानीयैः चारैः असत्यकथनेन राजानः न वञ्चनीयाः। अतः हे राजन्, युधिष्ठिर मया उच्यमानं वचनम् अप्रियमपि त्वं श्रोतुं तथा श्रुत्वा सोढुम् अर्हसि। पथ्या वाक् परुषा भवति। यत् मनोहरं वचनं भवति तत् पथ्यं न भवति। पथ्यं तथा मनोहरं च वाक्यं दुर्लभमेव।

अनेन श्लोकेन सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्। प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ इत्यस्य श्लोकस्य सारः ज्ञायते॥4॥

5.  स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते सकिंप्रभुः।

सदाऽनुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः॥5॥

यः कश्चित् आप्तः जनः, राजानं सर्वदा हितं न उपदिशति, सः जनं अधमं मित्रं भवति।   कश्चित् राजा यः मित्रैः कृतम् उपदेशं न शृणोति, सः राजा अधमः भवति। यदा राजानः मन्त्रिणश्च ऐकमत्येन भवन्ति, तदा एव, तेषु अनुरागपूर्वकं, सर्वविधाः सम्पदः तत्र निश्चयेन नित्यवासं कुर्वन्ति। अहं चारः भवतः आप्तः, अतः मया सद्विषयः वक्तव्यः एव। मम वचनानुसारं राज्ञा भवता च अनुष्ठातव्यमेव ॥5॥

No comments:

Post a Comment

A SHORT TREATISE ON SANSKRIT PROSODY - Part I

       PROSODY means the study of poetry.  In Sanskrit it is called Chandas or Vruttam.     The earliest and most important work in Sanskrit...