Monday, 12 April 2021

श्रीमन्महाभारतम् - Part I ( श्रीमन्महाभारतम् - पञ्चमो वेदः)

 

इतिहासयोर्द्वयोः द्वितीयं भवति श्रीमन्महाभारतम्। वेदोपबृह्मणानां मध्ये श्रीमन्महाभारतम् उत्तमोत्तमं भवति। परमकारुणिकेण भगवता महर्षिणा कृतमित् -

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्।

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्॥ इत्यनेन ज्ञायते। इतिहासत्वं च श्रीमन्महाभारतस्यैव मुख्यं, ऋग्वेदं, सामवेदं, यजुर्वेदमथर्वमवेदमितिहासपुराणं पञ्चमम् इति छान्दोग्योपनिषदि इतिहासपुराणनाम्ना निर्दिष्टं वर्तते॥

यस्य द्वैपायनः पुत्रस्स्वयं विष्णुरजायत।

प्रकाशो जनितो येन महाभारत चन्द्रमाः॥ इति मत्स्यपुराणे।

बिभेति गहनाच्छास्त्रान्नरस्तीव्रादिवौषधात्।

भारतश्शास्त्रसारोऽयमतः काव्यात्मना कृतः॥

आस्तिक्यारोहसोपानमेतद्भारतमुच्यते।

तच्छ्रुत्वा स्वर्गनरकौ लोकस्साक्षादिवेक्षते॥

अजिह्मो भारतः पन्था निर्वाणपथगामिनाम्।

मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः॥

एवंविधं भारतं वै प्रोक्तं येन महात्मना।

सोऽयन्नारायणस्साक्षाद्वयासरूपी महामुनिः॥

कार्ष्ण्यं वेदं पञ्चमं तद्न्महाभारतं स्मृतम्॥ इति भविष्यत्पुराणे।

 

                                                  ..... अनुवर्तते.......,

No comments:

Post a Comment

ZEALOUS ARJUNA

  Zealous Arjuna: The Warrior of Focus and Devotion In Sanskrit literature, Arjuna stands as the embodiment of zeal (utsāha), discipline...