Tuesday, 6 April 2021

श्रीमद्रामायणम् Part V (श्रीमद्रामायणकालीनः समाजः )


    श्रीमद्रामायणकालिकसमाजे परिवारस्य स्वरूपं पितृसत्तात्मकं आसीत्। यथा - पितरि शुश्रूषा तस्य वा वचनक्रिया। अयोध्यातः पितुराज्ञया एव रामः वनं अगच्छत्। पतिव्रताः - स्त्रीषु सीता-अनसूया-कौशल्या-सुलोचना इत्यादीनां नामानि प्रसिद्धानि आसन्। तद्यथा - स्त्रीणाम् आर्यस्वभावानां परमं दैवतं पतिः। शिक्षायाः स्वरूपं मौखिकम् आसीत्। बालकाः प्रायः गुरुकुलेषु आचार्याणां सान्निध्ये उषित्वा अध्ययनं कुर्वन्ति स्म। राजकुलानां बालकानां कृते अन्याभिः विद्याभिः कलाभिश्च सह सैन्यविद्यायाः अध्ययनमनिवार्यमासीत्। वेदविद्यायाः अध्ययनमपि सर्वेभ्य एव अत्यावश्यकमसीत्। तदानीं, ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः इति चत्वारः वर्णाः, ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्न्यासाः इति चत्वारः आश्रमाः, गर्भाधान-जातकर्म-नामकरण-अन्नप्राशन-यज्ञोपवीताः इत्यादयः षोडशसंस्काराश्च प्रचलिताः आसन्॥

    वाल्मीकि-भरद्वाज-विश्वामित्रादि ऋषीणाम् आश्रमेषु निरन्तरं यज्ञ-अग्निहोत्र-वेदाध्ययन-युद्धविद्यादीनाम् अध्ययनं भवति स्म। रामायणकालीनसमाजे अष्टविधाः विवाहाः प्रचलिताः आसन्॥

       इत्थं रामायणे उल्लिखितैः अनेकैः उदाहरणैः स्पष्टं भवति यत् तदानीं भारतीयसमाजस्य स्थितिः उन्नता आसीत्। समाजे सर्वेषामेव सुख-सौविध्यानि एवम् उन्नतेः अवसराः संप्राप्ताः आसन्। अद्यापि प्रायः इदमेव मन्यते यत् रामायणकालीनसमाजः सर्वप्रकारेण समुन्नतः, समृद्धः, आदर्शपूर्णः, सुदृढः, सुसङ्घटितश्च आसीत्॥

No comments:

Post a Comment

BUTTERMILK BISCUIT DAY

Today is Buttermilk Biscuit Day is being celebrated in some parts of the world. Butter and Buttermilk in Sanskrit Literature Butter, butterm...