श्रीमद्वाल्मीकिप्रणीतमेतदादिमहाकाव्यं श्रीमद्रामायणं संस्कृतवाङ्मयस्य अनुपमं रत्नभूतं विद्यते। काव्यक्षेत्रे एतस्य विलक्षणं साहित्यिकं महत्त्वं वर्तते। तद्यथा -
1. रसः - मा निषाद प्रतिष्ठां त्वगमः
शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकम् अवधीः कामकोहितम्॥
इति क्रौञ्चवधरूपकारुण्यद्योतनघचनात् उद्भूतरामायणे ग्रन्थे करुणरसस्य एव
प्राधान्यम् - रामायणे हि करुणो रसः। नवरुचिरं
ग्रन्थरत्नमेतत् श्रीमद्रामायणम्। अत्र यथास्थानं सर्वेषामपि रसानामभिव्यक्तिश्च
दृश्यते। तत्र विप्रलम्भशृङ्गारस्य तथा करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं
लक्ष्यते॥
2. छन्दः - श्रीमदादिकविवाल्मीकिमुखात्
निर्गतस्य अनुष्टुभ् छन्दसः एव अत्र प्राधान्यं वर्तते। सर्गान्ते उपजाति-
भुजङ्गप्रयात-पुष्पिताग्रा इत्यादीनि अन्यच्छन्दांसि अपि लभ्यन्ते॥
3. अलङ्कारः - श्रीमद्रामायणे
अनुप्रास-यमक-उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासादि शब्दार्थालङ्काराः
स्वाभाविक-तया प्रयुक्ताः॥
4. भाषा भावश्च - श्रीमद्रामायणे काव्यसौन्दर्यदृष्ट्या
भाषा सहजा सरला प्रवाहात्मिका च वर्तते॥
5. पञ्चसन्धयः - श्रीमद्रामायणे मुखसन्धिः, प्रतिमुखसन्धिः,
गर्भसन्धिः, विमर्शसन्धिः, निर्वहणसन्धिश्च इत्यादि पञ्चसन्धयः यथासन्दर्भं प्रयुङ्क्ताः
दृश्यन्ते॥
इत्थं रघुवंशं,
जानकीहरणम्, रामायणचम्पूः,उत्तररामचरितम् इत्यादि ग्रन्थानाम् उपजीव्यत्वात् श्रीमद्रामायणस्य
काव्य-वैशिष्ट्यं, साहित्यिकमहत्त्वं च स्वयमेव सिद्ध्यति॥
No comments:
Post a Comment