Thursday, 14 January 2021

श्रीमद्रामायणम् Part III

 श्रीमद्रामायणे आख्यानानि -

    आदिकाव्ये श्रीमद्रामायणे रामकथामतिरिच्य कानिचन मूलकथायाः सम्बद्धानि, कानिचन प्रासङ्गिकरूपेण च आख्यानानि उपलभ्यन्ते। तानि -

1. शुनःशेफाख्यानम् (हरिश्चन्द्रोपाख्यानम्) - अत्र महर्षिविश्वामित्रस्य उपदेशेन अजीगर्तपुत्रः शुनःशेफः वरुणदेवं पूजयित्वा स्वस्य प्राणरक्षां कृतवान्॥

2. ऋष्यशृङ्गाख्यानम् (बालकाण्डे) - ऋष्यशृङ्गः अङ्गदेशाधिपतेः रोमपादस्य जामाता आसीत्। एतस्यैव ऋष्यशृङ्गस्य आध्यक्ष्ये महाराजः दशरथः पुत्रकामेष्टियागं चकार॥

3. गङगावतरणाख्यानम् (बालकाण्डे) - राज्ञः सगरस्य अश्वमेधयज्ञादारभ्य तस्य प्रपौत्रेण भगीरथेन महता तपोबलेन पृथिव्यां गङगावतरणस्य कथा वर्णिता अस्ति॥

एतदतिरिच्य श्रीमद्रामायणे मरुतानामुत्पत्त्याख्यानम्, अहल्यो-द्धारणाख्यानम्, कार्तिकेयोत्पत्त्याख्यानम्, मैत्रावरुणाख्यानम्, अष्टावक्राख्यानम्, मेनका-विश्वामित्राख्यानम्, पुरूरवाख्यानम् इत्यादीनि उल्लिखितानि विराजन्ते॥

                                           
                                                         ..... अनुवर्तते.......,

Saturday, 2 January 2021

श्रीमद्रामायणम् Part II

 

श्रीमद्वाल्मीकिप्रणीतं श्रीमद्रामायणं भारतीयानामस्माकं जीवातुभूतम्। श्रीमद्वाल्मीकिना स्वेनैव कथितमुत प्रणीतं वाल्मीकेश्चरितं श्रीमदध्यात्मरामायणे अयोध्याकाण्डे षष्ठे सर्गे दृश्यते। तपस्वी वाल्मीकिः वामलूरा इति पिपीलिकाविशेषैस्सृष्टात् वल्मीकात् सञ्जातः अथवा वल्मीकनामकमुनिना कस्यांश्चित् सर्पाङ्गनायां जातः इति विषयः स्कन्दपुराणे वैशाखमाहात्म्ये लभ्यते। वस्तुतः अयं वाल्मीकिस्तावत् पूर्वं रत्नाकरो नामा कश्चित् निषादः(व्याधः उत किरातः) पथिकानां बाधकः तथा तेषां घर्षण-लुण्ठन-वञ्छन-हनन-परायणः। सप्तर्ष्युपदेशेन रामनामजपं कुर्वन् वल्मीकेनावृतोऽभवदित्यनेन वाल्मीकिरिति तैस्सप्तर्षिभिराहूतः॥

 

                                                     ..... अनुवर्तते.......,

Friday, 1 January 2021

इतिहासपुराणानि Part V - श्रीमद्रामायणम् Part I

 


आदिकविर्वाल्मीकिः, तेन विरचितं महाकाव्यं श्रीमद्रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्य-ओज-प्रसादादिगुणैः समन्वितेन, रचनाशैल्याः प्राञ्चलतया, भावानानां मनोहारिण्या विवृत्त्या, सर्वेषां रसानां यथास्थानं उपन्यासात्, भारतीयायाः संस्कृतेः विशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्टचित्रणेन, आचारसंहितायाः सङ्कलनेन, नीतिशिक्षायाः सङ्ग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथञ्च उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्याः, अलङ्काराणां सुनियोजनेन, छन्दसां सङ्गीतात्मकत्वेन च विशालेऽस्मिन् काव्यमयाकाशे प्रकर्षेण चकास्तितमाम्। अत एव भूयो भूयो महाकाव्यमिदं संस्तूयते प्रशस्यते चाभिवन्द्यते इदानीमपि विद्वद्धौरेयैर्विदग्धैः इत्यत्र न कोऽपि संशयः॥

 

                           ..... अनुवर्तते.......,

Tuesday, 6 October 2020

इतिहासपुराणानि Part IV

 श्रीमद्रामायण-श्रीमन्महाभारतयोः इति द्वयोः इतिहासयोः श्रीमद्रामायणं पुरातनम्। श्रीमद्रामायणे दृश्यमानानां वर्ण्यमानानां रघु-दशरथ-रामप्रभृतीनां सूर्यवंशीयानां  राज्ञां, वसिष्ठ-विश्वामित्र-अगस्त्य-भरद्वाजादिमहर्षीणां, वालि-सुग्रीवनामयोः सहोदरयोः, रावण-कुम्भकर्ण-विभीषणानामानां भ्रातॄणां, हनुमान्, जाम्बवान् इति  नेतॄणां नायकानांश्च अनेककथापात्राणां वर्णनं श्रीमन्महाभारतेऽपि लभ्यते। श्रीमन्महाभारते वनपर्वणि युधिष्ठिरसमाश्वसनरूपेण "रामोपाख्यानम्" इति कथनं सर्वैरपि  ज्ञातुं द्रष्टुं च शक्यते॥   

 

                                        ..... अनुवर्तते.......,

Monday, 5 October 2020

इतिहासपुराणानि Part III

 इतिहासः इत्यस्य निरुक्तदिशा "इति ह आस" अर्थात् इत्थम् आसीत्     उत एवं समभवत् इत्यर्थसिद्धिः। अतः पुरा संभूतानि चरितानि बहूनि इतिहास तथा पुराणात्मकानि भवन्ति। वस्तुतः आख्यानमित्यस्य पुरातनकथनमित्येव भवति। संस्कृतभाषायां विद्यमानानि कथाख्यानादीनि इतिहासपुराणसंज्ञया, इतराणि अन्यानि काव्यसंज्ञया   च व्यपदिश्यन्ते। संस्कृतभाषायां द्वे इतिहासे भवतः। ते श्रीमद्रामायणं श्रीमन्महाभारतञ्च। तयोः इतिहासयोः द्वयोः श्रीमद्रामायणं प्रथमं तथा श्रीमन्महाभारतं द्वितीयमिति सर्वपण्डितपिण्डितसम्मतम्॥

Sunday, 4 October 2020

इतिहासपुराणानि Part II

         इतिहासपुराणसमयस्तावत्  संस्कृतवाङ्मयस्य वैदिकलौकिक-कालयोरन्तरेऽर्धपथो भवति। इतिहासपुराणेषु लौकिकसंस्कृतापेक्षया वैदिकसंस्कृतसमानतया आर्षिकशब्दप्रयोगाः वैयाकरणात् स्वतन्त्राः आर्षत्वात् साधवः इति अमन्यन्त। आख्यान-इतिहास-पुराणादि शब्दाः वेदैः पूर्वं प्रतिपाद्यमानत्वात्  "इतिहासपुराणाभ्यां वेदः समुपबृंहयेत्" इति सूक्तिमनुसृत्य इतिहासपुराणादयः वैदिकविषयाविष्करणाय महर्षिवचोभिः परिपुष्टा जाता। यम-यमीसंवादः, पुरूरव-ऊर्वशीसंवादः इत्यादीनि आख्यानानि वैदिक-साहित्येषु नाटकीय-आख्यायिकभूताः बहवः अंशाः दृश्यन्ते। प्रायशः एतद्युज्यते यत् वैदिकाः अर्वाचीन-नाटकीयांशैः, लौकिकाः पुरातनीयैः आख्यायिकांशैश्च निवेशिताः इत्यत्र न कोऽपि संशयः वर्तते॥      

                                             ..... अनुवर्तते.......,

Saturday, 3 October 2020

इतिहासपुराणानि Part I

     "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" इति आभाणकः अस्माकं भारतदेशस्य संस्कृतभाषा तथा अस्माकं भारतीयानांच संस्कृतिश्च अनितरसाधारणा तथा समस्तलोकसमेषां सम्मता इति उद्घोषयति। एतद्विषयं करतलामलकीकरोति अस्माकं भारतदेशस्यश्रीमद्रामायणं श्रीमन्महाभारतमिति इतिहासद्वयम्। श्रीमद्रामायण-महाभारत-मितीतिहासद्वयं चतुर्वेदानां तथा तत्तद्वेदानां षड्वेदाङ्गानां च सारं निष्पिष्य सर्वान् मानवान् नेये मार्गे नयन् समस्तलोकपावनात्मकं  सुषमया शोभयद्विराजते। समस्तजनपावनं सकललोकपापशमार्हं सर्वशास्त्रातिरिक्तसारं समस्तसाक्षराणां नेत्रात्मकं विलसति एतदितिहासद्वयम्॥

                                                ..... अनुवर्तते.......,

LAXMI PANDA BY SAVIE KARNEL

    Laxmi Panda: Netaji’s Youngest Spy Finally Gets Her Due Savie Karnel’s new book revives the forgotten heroine of the INA for today’s r...