Saturday, 2 January 2021

श्रीमद्रामायणम् Part II

 

श्रीमद्वाल्मीकिप्रणीतं श्रीमद्रामायणं भारतीयानामस्माकं जीवातुभूतम्। श्रीमद्वाल्मीकिना स्वेनैव कथितमुत प्रणीतं वाल्मीकेश्चरितं श्रीमदध्यात्मरामायणे अयोध्याकाण्डे षष्ठे सर्गे दृश्यते। तपस्वी वाल्मीकिः वामलूरा इति पिपीलिकाविशेषैस्सृष्टात् वल्मीकात् सञ्जातः अथवा वल्मीकनामकमुनिना कस्यांश्चित् सर्पाङ्गनायां जातः इति विषयः स्कन्दपुराणे वैशाखमाहात्म्ये लभ्यते। वस्तुतः अयं वाल्मीकिस्तावत् पूर्वं रत्नाकरो नामा कश्चित् निषादः(व्याधः उत किरातः) पथिकानां बाधकः तथा तेषां घर्षण-लुण्ठन-वञ्छन-हनन-परायणः। सप्तर्ष्युपदेशेन रामनामजपं कुर्वन् वल्मीकेनावृतोऽभवदित्यनेन वाल्मीकिरिति तैस्सप्तर्षिभिराहूतः॥

 

                                                     ..... अनुवर्तते.......,

No comments:

Post a Comment

CHARUCHARYA Part IV

  न मद्यव्यसनी क्षी बः कुर्याद् वेतालचेष्टितम्। वृष्णयो हि ययुः क्षी बास्तृ णप्रहर णाः क्षयम् ॥११॥ na madya-vyasanī k ṣ īb a ḥ kury ā d...