अप्राप्यप्राप्तिः योगः, प्राप्तरक्षणं क्षेमः, तदेव योगक्षेमः इति सर्वैः ज्ञायते। तत्तु ज्यौतिषशास्त्रेण प्राप्तुं शक्यते। इतोऽपि एतद्विषयः ज्ञातव्यः यत् अधोलिखितः एकः बृहत्पाराशर्यहोराशास्त्रश्लोकः अहोरात्राद्यन्तलोपात् होरेति प्रोच्यते बुधैः। तस्य हि ज्ञानमात्रेण जातकर्मफलं वदेत्॥ अर्थात् अहोरात्र इति पदस्य आद्यन्तात्मकयोः अ-त्र इति वर्णयोः लोपेण होरा इति शब्दः जायते। होरा अथवा लग्नः इत्यस्य ज्ञानमात्रेण मानवानां जातककर्मणः शुभाशुभफलं वक्तुं शक्यते॥
..... अनुवर्तते.......,
No comments:
Post a Comment