पञ्चमं भवति असन्देहः। यथा स्थूलपृषतीम् इत्यत्र अत्र बहुव्रीहिसमासः वा तत्पुरुषसमासः इति सन्देहो जायते। अतः तत्सन्देहः अपवार्यः। सन्देहदूरीकरणाय व्याकरणाध्ययनम् आवश्यकम्॥ अतः अस्माभिः, एतत् मनसि सर्वथा संयक् निधातव्यं यत्, यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्। स्वदनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥ अपशब्दनिवारणार्थं तथा अपशब्दप्रयोगनिरसनार्थं च व्याकर-णाध्ययनमावश्यकम्। "एकः शब्दः, संयक् ज्ञातः, शास्ज्ञान्वितः, सुप्रयुक्तः, स्वर्गे लोके च कामदुघ् भवति" इति वचनं व्याकरणाध्ययनावश्यकत्वं द्रढयति॥
Sunday, 6 September 2020
Saturday, 5 September 2020
व्याकरणम् Part V
तृतीयं भवति आगमः। व्याकरणाध्ययनाय स्वयं प्रमाणभूता
वर्तते श्रुतिः। निष्कारणधर्माचरणार्थं अङ्गसहितवेदाध्ययनं करणीयं वेदार्थिना इति
वेदाज्ञा॥
तुरीयं भवति लघु। पुरा देवगुरुः बृहस्पतिः देवेन्द्राय दैवीक-एक-सहस्रसंवत्सरपरिमितं विद्याध्यापनं कृत्वापि, विद्या तावत् अनन्ता इत्यनेन तत् न समापितम्। अतः शास्त्राणां संक्षेपीकरणाय व्याकरणम् आवश्यकम् ॥
..... अनुवर्तते.......,
Friday, 4 September 2020
व्याकरणम् Part IV
रक्षा-ऊहा-आगम-लघु-असन्देहाः इति व्याकरणप्रयोजनेषु प्रथमं भवति रक्षा। वेदानां रक्षा व्याकरणादेव शक्यते। अक्षर उत वर्णानां लोप-आगम-वर्णविकारज्ञेनैव वैयाकरणेन वेदः रक्षितो भवति। वेदार्थज्ञानं, तदनुगुणकर्मानुष्ठानं, तज्जनितोपनिषद्ज्ञानं तज्जनितसुखम् अर्थात् ब्रह्मानन्दसुखं व्याकरणाध्ययनस्य फलं भवति॥
द्वितीयम्
ऊहः। वेदसंस्कृतपदानि कस्यां विभक्त्यां, कस्मिन् लिङ्गे, कस्मिन् वचने, कस्मिन्
पुरुषे, कस्मिन् कालबोधके वर्तन्ते इति तर्क-वितर्कादि नूतनकल्पनाज्ञानं दुर्गममपि
तदूहात्मकेन व्याकरणाध्ययनेन लभ्यते॥
..... अनुवर्तते.......,
Thursday, 3 September 2020
व्याकरणम् Part III
ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्। सारस्वतं चापिशलं काश्यपं पाणिनीयकम्॥ इति श्लोकेन व्याकरणानि नवविधानि इति ज्ञायते। अपि तु मुग्धबोधे - इन्द्र-चन्द्र-काशकृत्स्नापिशली-शाकटायनाः। पाणिन्यमरजैनेन्द्राः जयन्त्यष्टा हि शाब्दिकाः॥ इति वोपदेवस्य श्लोकेन वैयाकरणाचार्याः अष्ट इति च ज्ञायते। इतोऽपि, वोपदेव-कातन्त्र-सौपद्म इति नामभिः व्याकरणानि चोच्यन्ते। एवं व्याकरणानि अनेकान्यपि तेषु पाणिनीयव्याकरणमेव सर्वोत्कृष्ठं तथा सुगममिति च विदितमेषां समेषाम्॥
..... अनुवर्तते.......,
Wednesday, 2 September 2020
व्याकरणम् Part II
"वाग् वै पराच्यव्याकृताऽवदत्, ते देवा इन्द्रमब्रुवन्-इमां नौ वाचं व्याकुर्विति। तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्" इति तैत्तिरीय-संहिता(6।4।7) इति वेदवचनात् व्याकरणपरम्परा इन्द्रादारब्धा इति अवगम्यते। पाणिनेः पूर्वं माकिं अशीति-संख्याकाः भारतीयवैया-करणा-चार्याः आसन्निति प्रथा। भगवान् पाणिनिरपि "आपिशली-काश्यप-गार्ग्य-गालव-चाक्रवर्मण-भारद्वाज-शाकटायन-शाकल्य-सेनक-स्फोटायन" तान् भारतीयवैयाकरणपूर्वाचार्यान् स्वकीये अष्टाध्यायी नामके ग्रन्थे सूत्ररूपेण मनसि निधाय उल्लिलेख॥
..... अनुवर्तते.......,
Tuesday, 1 September 2020
व्याकरणम् Part I
वेदस्य षडङ्गेषु द्वितीयं भवति व्याकरणम् । "मुखं व्याकरणं प्रोक्तम्" इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य मुखरूपेण भवति व्याकरणम्। "रक्षा-ऊहा-आगम-लघु-असन्देहाः व्याकरणप्रयोज-नम्" इति कात्यायनमहर्षेः वचनं व्याकरणप्रयोजनमधिकृत्य ज्ञापयति। वेदाध्ययनाय वर्ण-उच्चारणसौष्ठवाय शिक्षायाः अध्ययनादनन्तरं वर्ण उत अक्षरसमूहात्मकस्य पदस्य ज्ञानं संपादनीयं मुख्यं भवति। तत्पदं कीदृशं?,तत्पदस्य प्रकृतिः किं?, विकृत्यपरनाम्न्याः प्रत्ययम् किम् ? इति व्याकरणं बोधयति। पदज्ञापनेन व्याकरणं पदशास्त्रमित्यपि कथ्यते॥
..... अनुवर्तते.......,Monday, 31 August 2020
शिक्षा Part III
शिक्षाग्रन्थानामुद्देश्यं न केवलं वर्णोच्चारणशुद्धये अपि तु शिष्ठा-चारादि शीलसंरक्षणाय च। व्यास-लक्ष्मी-भारद्वाज-आरण्य-शम्भु-आपिशली-पाणिनि-कौहलीय-वासिष्ठशिक्षाः इति प्रधानशिक्षाः नव, याज्ञ्यवल्क्य- आत्रेय-नारदीय-गौतम-लोमश-कौण्डिन्य-प्लाक्षायम-अगस्त्य-व्याळिशिक्षाः इति उपशिक्षाः नव इति आहत्य अष्टादशशिक्षाः सन्ति। शिक्षाग्रन्थानां मुख्योद्देस्श्यं वेदग्रन्थानां रक्षणमेव॥
..... अनुवर्तते.......,VĀMANA BHAṬṬA BĀṆA: LIFE AND SANSKRIT WORKS
Vāmana Bha ṭṭ a Bā ṇ a ( वामनभट्टबाण) was a Sanskrit poet, dramatist, and prose writer associated with the later classical period of Sans...
-
In Tamil Nadu, there is a district called Karur. This place is situated between Tiruchirappalli and Erode. It was embellished with the r...
-
Sanskrit literature is a vast ocean of wisdom, beauty, and moral insight, enriched with countless characters, divine beings, and natural w...
-
All creatures have food so long as they live, and they eat it too. · “Prithivyamm thr...