Sunday, 20 September 2020

कल्पः Part VI

 

धर्मसूत्रविषये, वसिष्ठधर्मसूत्रं ऋग्वेदीयमिति उच्यते। गौतम धर्मसूत्रं सामवेदीयं प्रसिद्धं भवति। बौधायन, आपस्तम्ब, सत्या षाढ इति त्रीणि धर्मसूत्राणि कृष्णयजुर्वेदे भवन्ति। एतानि विविधाश्रमीणामर्थात् ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ्य-पारिव्राजिक धर्मान्, विविधवर्णानामर्थात् ब्राह्मण-क्षत्रिय-वैश्य-शूद्रेति तत्तज्जातीयवर्ण-तत्तदनुगुणान् धर्मान्, शुद्धाशुद्ध-    आ चरणविचारान्, कार्याकार्य-विषयान्, सामाजिकधर्मान्, राजकीयधर्मान्, स्त्रीधर्मान्, आपद्धर्मान् बोधयन्ति॥

                                                            ..... अनुवर्तते.......,

Saturday, 19 September 2020

कल्पः Part V

 

    आश्वलायनगृह्यसूत्रम्, शाङ्खायनगृह्यसूत्रमिति ऋग्वेदीय-गृह्यसूत्रद्वयम्। सामवेदीयं खादिर-गोभिल इति गृह्यसूत्रद्वयमस्ति। कृष्णयजुर्वेदीयानि बौधायन, आपस्तम्ब, सत्याषाढ, मानव, काठक इति पञ्चगृह्यसूत्राणि। शुक्लयजुर्वेदीयं पारस्करीयगृह्यसूत्रम् । अथर्ववेदीयं कौशिकगृह्यसूत्रम्। एतेषु सर्वेष्वपि गृह्यसूत्रेषु श्रौतसूत्रोक्त (14) चतुर्दशश्रौतयज्ञाः,(7) सप्त पाकयज्ञाः, (5) पञ्चमहायज्ञाः तथा तत्तद्वेदीयगृह्यसूत्रोक्ताः गर्भाधान, पुंसवन (पुत्रजन्मानुष्ठान), गर्भवतीनां स्त्रीणां केशविन्यासात्मकं सीमन्तोन्नयनं, जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन, चूडाकरण, उपनयन, वेदाध्ययनसमये अनुष्ठेय महानाम्नीव्रत, महाव्रत, उपनिषद्व्रत, गोदानव्रत, समावर्तन, विवाह, अन्त्येष्टि इत्यादि (16) षोडश संस्काराः आहत्य (42) द्विचत्वारिंशत् संस्काराः तत्तदवसरानुसन्दर्भे विवर्णिताः भवन्ति॥

                                    ..... अनुवर्तते.......,

Friday, 18 September 2020

कल्पः Part IV

 गृह्यसूत्रेषु पितृभ्यः,पार्वण(पूर्णिमा तथा अमावास्या)यज्ञ-अष्टकान्वष्टकायज्ञ-श्रावणीयज्ञ-आश्वयुजीयज्ञ-आग्रहायणीयज्ञ-चैत्रीयज्ञात्मकाः पिण्डरूपेण सकुशोदकतिलरूपेण च कर्तव्याः पितृ(श्राद्ध) यज्ञाः, पशुपक्षीभ्यः, अन्नपानादिदानरूपेण कर्तव्याः भूतयज्ञाः, देवतेभ्यः,होम-हवन-सत्र-मख-याग(देवताद्दिश्य-द्रव्यत्यागः यागः)-अश्वमेधादिमहायज्ञरुपेण  कर्तव्याः देवयज्ञाः, वेदानामध्ययन-अध्यापन-मन्त्राणां पठनपाठनरूपेण कर्तव्याः ब्रह्मयज्ञाः, समाजे विद्यमानेभ्यः भिक्षु-साधु-परिव्राजकेभ्यः तथा अस्माकं गृहं प्रति आगतेभ्यः अतिथिभ्यः अर्घ्यपाद्याचमनीय-पानीयस्नानीयभोज्यादिदानरूपेण कर्तव्याः मनुष्ययज्ञाः इति पञ्चमहायज्ञाः विस्तरेण व्याख्याताः भवन्ति॥

                                    ..... अनुवर्तते.......,

Thursday, 17 September 2020

कल्पः Part III

 

    चतुर्ष्वपि वेदेषु आहत्य 1,130 शाखाः भवन्ति। एतदनु-सारेण प्रतिशाखायाः कृते 1,130 कल्पसूत्राणि भवितव्यानि वेदविदुषा-मभिप्रायः। परन्तु अधुना 40 कल्पसूत्राणि एवोप-लभ्यन्ते। श्रौत-सूत्रेषु श्रौतयज्ञाः  अग्न्याधान-अग्निहोत्र-दर्शपूर्णमास-आग्रहायण-चातुर्मास्य-निरूढपशुबन्ध-सौत्रामणि इति चरुपुरोडाशरूपेण हविषा सम्पन्नाःहविर्यज्ञाः सप्त तथा वैदिकयज्ञाः अग्निष्टोम-अत्यग्निष्टोम-उक्थ्य-षोडशी-वाजपेय-अतिरात्र-आप्तोर्यामक  इति सोमरसेन सम्पन्नाः सोमयज्ञाः सप्त इति आहत्य चतुर्दशविधयज्ञाः विवर्णिताः विलसन्ति॥

                                                        ..... अनुवर्तते.......,

Wednesday, 16 September 2020

कल्पः Part II

 

    "कल्प्यते-समर्थ्यते यागप्रयोगोऽत्र  इति कल्पः", "कल्पो वेद-विहितानां कर्मणामानुपूर्व्येण कल्पना शास्त्रम्"  इत्यवगन्तव्यानि कल्पसूत्राणि। तानि श्रौतसूत्र-गृह्यसूत्र-धर्मसूत्र-शुल्बसूत्रादि भेदैः चतुर्विधानि भवन्ति। वैदिकसंहितासु उक्तानां यज्ञादि-विषयकानां विधानानि तद्विवरणानि श्रौतसूत्रेषु व्याख्यातानि। गृहेषु मानवानां जन्मारभ्य मृत्युपर्यन्तं समस्तकर्तव्यकर्माणाम् अनुष्ठानानि (पूर्व-अपरक्रियाकलापाः) गृह्यसूत्रेषु विस्तृतानि भवन्ति। विभिन्न पारमार्थिक, सामाजिक, राजनीतिक कर्तव्यानि, विविधवर्णानां तथा विविधाश्रमीणां कर्तव्यानि, सामान्यतः मानवानां जन्मारभ्य विवाह तथा उत्तराधिकारादि विवरणानि धर्मसूत्रेषु दृश्यन्ते। "ज्यामिति" आदि गणितात्मकविज्ञानानां तत्त्वानि शुल्बसूत्रेषु लभ्यन्ते॥

                                                    ..... अनुवर्तते.......,

Tuesday, 15 September 2020

कल्पः Part I

 

    वेदस्य षडङ्गेषु पञ्चमं भवति कल्पः। "वेदस्य हस्तौ कल्पोऽथ पठ्यते" इत्यनेन वेदपुरुषस्य हस्तरूपो भवति कल्पः। कॢप् (कल्प्) सामर्थ्ये इति धातोरुत्पन्नोऽयं कल्पशब्दः। विधि-नियम-न्यायादीनां शब्दानामर्थबोधकः कल्पशब्दः। विधि-नियम-न्यायादीनां संक्षिप्त-सारवत्-दोषरहितवाक्यसमूहानां प्रतिपादनं करोति कल्पसूत्राणि, भारतीय विशिष्य हिन्दुत्व-हिन्दुधर्म-हिन्दुसंस्कृतीनां प्राण-भूतानि कल्पसूत्राणि। कर्मभूमिः धर्मभूमिः इत्युच्यते भारतभूमिः। कल्प-सूत्राणामाधारशिला भवति कर्मकाण्डः। सकलसंस्काराः, तेषां निखिलानामनुष्ठानानि समुचितरीत्या इत्थमनु-सरणयोग्यानि इति  प्रतिपादयन्ति कल्पसूत्राणि॥

                                          ..... अनुवर्तते.......,

Monday, 14 September 2020

निरुक्तम् Part V

     द्वितीये नैगमिककाण्डे वेदमन्त्रपदानां तथा तेषामर्थैकविवरणनार्थं  व्याख्यानं दृश्यते॥                                                                      तृतीये दैवतकाण्डे "अग्निः" इत्यारभ्य "देवपत्नी" इति पर्यन्तं देवतानिरूपणात्मकानां पदानां निरुक्तिविवरणं दृश्यते। वेदमन्त्रपदानां तदर्थानां विवरणार्थं  व्याख्यानारम्भसन्दर्भे वेदमन्त्रपदानां  नाम-आख्यात-उपसर्ग-निपातात्मकैः चतुर्भिः क्रमैः विभज्य, तेषां तात्पर्यचर्चा विस्तृता भवति। अतः इदं सुलभतया अवगम्यते सर्वैः जिज्ञासुभिः यत्, विना निरुक्तशास्त्रं वेदार्थविवरणं संयक् न लभ्यते इत्येव॥

                                                   ..... अनुवर्तते.......,

VĀMANA BHAṬṬA BĀṆA: LIFE AND SANSKRIT WORKS

  Vāmana Bha ṭṭ a Bā ṇ a ( वामनभट्टबाण) was a Sanskrit poet, dramatist, and prose writer associated with the later classical period of Sans...