वर्षाकालः
1
पूर्वं वृक्षाः हरितभरिताः पुष्पशाखाभिजुष्टाः
भूयः सिक्ताः द्विगुणहरिताः रञ्जयन्तो (अ)भिरामाः।
वृष्ट्या चैते कृषिजनफलाः क्लेदयन्तो महत्या
वर्षाकाले नयनसुखदाः वीक्षितानां जनानाम्।। 1 ।।
2
मन्दं मन्दं पवनरहिते दुर्दिने वृष्टिमग्नाः
प्रातः स्नाता पुनरपि भृशं वाहनं चालयन्तः।
छिन्नाः भिन्नाः शिथिलमनसा यान्ति कार्यालयांश्च
मन्ये(अ)धन्याः गणय इति ते मन्दभाग्या मनुष्याः।। 2 ।।
No comments:
Post a Comment