अस्त्युत्तरस्यां दिशि हैमशैलः यद्दक्षिणे हिन्दुमहासमुद्रः I
काञ्च्यादि पुण्यैर्नगरैर्युतो यं श्रीमन्महाभारतदेश नामा II
प्रजानां भरणादेव भारतमिति कथ्यते I
शकुन्तलादुष्यन्त पुत्रनाम्ना च वेद्यते II
संस्कृतिर्भारतीया हि कठिनापि सुखावहा I
सा यैराचरिता श्रेष्ठा तेषां च सुगतिप्रदा II
संसारे स्मिन् सकलजगतारक्षणम्भारते वै
रात्रौ सुप्त्वा सुखमनुदिनम् सुप्रभातं भवेच्च I
काले काले कलिमतियुतां वारणं कारयन्तः
लोकाचार्याः विविधमतगान् मादृशान् पालयन्ति II
No comments:
Post a Comment