चतुर्दशसु विद्यासु पुराणमप्येकविद्या। वेदार्थादधिकं मन्ये
पुराणार्थं वरानने इति पार्वतीं प्रति भगवत्परमेश्वरस्य
वचनम्।
पुराण साहित्ये सर्वाधिकं प्रचलति श्रीमद्भागवतपुराणमेव।
अस्य विविधाः संस्कृतटीकाः विविधासु भाषासु रूपान्तराणि
च
वर्तन्ते। अस्मिन् पुराणे भगवान् श्रीकृष्णः परब्रह्मरूपेण
प्रतिपादितः विद्यते। अत्र मिताः द्वादशस्कन्धाः,मिताः 335 अध्यायाः, तथा मिताः 1800 श्लोकाश्च उपलभ्यन्ते।
अत्र पुराणोत्पत्ति-विराट्- पुरुष-देवोपासना-
सृष्टिक्रम- उद्धवविदुरसंवादमुखेन
श्रीकृष्णलीला-
भूगोल-समुद्रमथन-सूर्यचन्द्रवंशीयराजानां विवरणमित्यादयः विवेचिताः सन्ति।
“विद्यावतां कुरु भागवते परीक्षा ”
इति प्रसिद्धाभाणकेन श्रीमद्भागवतपुराणस्य विषयगाम्भीर्यं
वैशिष्ट्यं अनुमीयते तथा अनुमन्यते च। एतस्मात् पुराणात् भूगोलवर्णनम् उत
भुवनकोशवर्णनं प्रति किञ्चित् पश्यामः।
अत्र प्रथमं राजा परीक्षित् ऋषीन्
भूगोलवर्णनं कथयितुं
ह्यविज्ञापयत् सादरम्। एषः विषयः श्रीमद्भागवतपुराणे
पञ्चमस्कन्धे षोडशे अध्याये वर्णितः भवति।।
राजा उवाच –
उक्तस्त्वया भूमण्डल-आयामविशेषो यावदादित्यस्तपति
यत्र चासौ
ज्योतिषां गणैश्चन्द्रमा वा सह दृश्यते॥1॥
भूमण्डले सूर्यः तपति, तथैव शुक्लपक्षकृष्णपक्षयोः नक्षत्रगणैः
सह असौ चन्द्रः दृश्यते ॥1॥
सूर्यः (sun)
किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या
अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु
सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः
उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति ।
सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः
भवति ८,६५,००० मैल्-परिमितम् । भूमेःविस्तारस्य अपेक्षया
१३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम्। अणुप्रक्रियया सूर्ये
शक्त्युत्पादनं भवति । सूर्ये
प्रचाल्य मानया अनया क्रियया
जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः
द्रव्यराशौ प्रत्येकस्मिन् क्षणे
चत्वारि-मिलियन्- टन्-
परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां
परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते ।
वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम्
अन्तरे विद्यते ॥
चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति । सूर्यस्य
अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम्
अस्माकं
दृष्ट्या। भूमिः स्वं
परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । अन्ये ग्रहाः
इव चन्द्रेण अपि
स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं
२७ दिनानि ७ घण्टाः ४३ निमेषाः
स्वीक्रियन्ते ।
तन्नाम २७.३२१७ दिनानि स्वीकरोति । अयम् एव
नक्षत्रमासः इति उच्यते । भूमौ स्थित्वा
ये अवलोकयन्ति
तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य
तत्रैव प्रत्या गन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं
शक्यते ।
एषः कालः २७.३२१७ सौरदिनसमानः भवति ॥
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्तसिन्धवः
उपकॢप्ताः
यत एतस्याः सप्तद्वीपविशेषविकल्पस्त्वया
भगवन् खलु सूचित एतदेवाखिलमहं मानतो
लक्षणतश्च सर्वं विजिज्ञासामि॥2॥
सप्तसिन्धुभ्यः एतस्याः भुवः सप्तद्वीपविशेषविकल्पः
सङ्क्षेपतः
दर्शितः॥2॥
भगवतो गुणमये स्थूलरूप
आवेशितं मनो प्यगुणे अपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासिदेवाख्ये
क्षममावेशितुं तदु पैतद् गुरो अर्हस्यनुवर्णयितुमिति॥3॥
विभूतिकाष्ठाजिज्ञासायाः फलमत्रोच्यते॥3॥
ऋषिरुवाच –
न वै महाराज भगवतो
मायागुणविभूतेः काष्ठां मनसा वचसा
वा अधिगन्तिमलं विबुधायुषापि पुरुषस्तस्मात्प्राधान्येनैव
भूगोलकविशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः॥4॥
भगवतो मायागुणविभूतिकाष्ठा तावत् मनो-दृष्टि- वाचामगो
चरा इति कथ्यते॥4॥
यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुत
योजनविशालः समवर्तुलो यथा पुष्करपत्रम्॥5॥
कुवलयकमलकोश इत्यनेन एतद्भूमण्डलं कमलपुष्पवदस्ति।
तस्य कोशाः सप्तद्वीपाः, तत्रापि अभ्यन्तरकोशः प्रथमः जम्बूद्वीपः
लक्षयोजनविस्तीर्णः॥5॥
यस्मिन्नव वर्षाणि नवयोजनसहस्र-आयामानि अष्टभिः मर्यादा गिरिभिः
सिविभक्तानि भवन्ति॥6॥
अस्य जंबूद्वीपस्य नवयोजनसहस्रमायामः अर्थात् विस्तारः।
एतच्च भद्राश्वकेतुमालव्यतिरेकेण द्रष्टव्यम्। तयोश्चतुर्विंशत् योजन सहस्रा- यामत्वात्।
केचित्तु नीलनिषधयोः संलग्नाग्रयोः समुद्र प्रवेश मङ्गी- कृत्य तयोरपि सङ्कुचितेन
नवसहस्रायामत्वं संपादयन्ति सन्निशश्च॥
धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे।
दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्॥
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य वाभ्यामवस्थितः
सर्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीप-आयामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य
मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले षोडश- सहस्रं तावता अन्तर्भूम्यां
प्रविष्टः॥7॥
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति
त्रयो रम्यक
हिरण्मय कुरूणां वर्षाणां मर्यादा-गिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव
एकैकशः पूर्वस्मात्पूर्वस्मादुत्तर
उत्तरो दशांशा- धिकांशेन दैर्घ्य एव ह्रसन्ति ॥८॥
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति
प्रागायता
यथा
नीलादयो-ऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥९॥
तथैवेलावृतमपरेण पूर्वेण च
माल्यव-द्गन्धमादनावानील
निषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोःसीमानं
विदधाते ॥१०॥
No comments:
Post a Comment