कुक्कू कुक्क्विति कूजन्ति कोकिलविहगाः विहरन्ति I
पक्वानि फलानि खादन्ति बालाः दृष्ट्वा नन्दन्ति II 1 II
चूते वृक्षे निवसन्ति चीत्कारं बहु जनयन्ति I
काकान् दृष्ट्वा त्रस्यन्ते काकैरेव हि पाल्यन्ते II 2 II
वसन्तकाले संप्राप्ते वारं वारं कूजन्ति I
श्रवणं मधुरं गमयन्ति सौख्यं मनः आप्नोति II 3 II
This is my own composition for children. It describes about the bird cuckoo and its qualities.
ReplyDelete