किञ्चिन्मया श्रुतिषु किञ्चिरिवागमेषु
शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित्।
आघ्रातमस्ति यदतो भवतीं वरीतुं
गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा।। 33।।
इत्यस्मिँञ्छ्लोके
गोप्त्रीति पदप्रयोगेन गोप्तृत्ववरणाख्यं
शरणागतेरन्यतराङ्गं सूचयति। ततः,
शरणागतेरन्यतराङ्गं सूचयति। ततः,
ब्रह्मैवमेवमहमेष
तदाप्त्युपाय
इत्यागमार्थविधुराः प्रथमे
दयार्हाः।
त्वद्रक्षकत्त्वगुणमात्रविदो द्वितीया
इत्यर्थये सदधिकारनिरूपणाय।।34।।
इति शेलोके कार्पण्यं द्योतयति। मध्ये, अव्याजसुन्दरमनुत्तरमप्रमेयम्
अप्राकृतं परममङ्गलमङ्घ्रिपद्मम्। सन्दर्शयेदपि सकृद्भवतीति दयार्द्रा
द्रष्टास्मि केन तदहं तु विलोचनेन।।61।
इति श्लोके परममङ्गलं तवाङ्घ्रिपद्मं केन विलोचनेन
अहं द्रष्टास्मि इति पृष्ट्वा सर्वं द्रष्टुं नेत्रं ददातु इति प्रार्थयति।
अन्ते च अन्ते च,
"त्वत्सन्निधानरहितो मम माऽस्तु
त्वत्तत्त्वबोधरहिता मम माऽस्तु विद्या।
त्वत्पादभक्तिरहितो मम माऽस्तु वंशः
त्वच्चिन्तया विरहितं मम माऽस्तु चायुः।।104।।" इति शेलोके देवीमीनाक्ष्यधीनं सर्वं भवतु तद्रहितं माऽस्तु
इति प्रार्थयति। परमावसाने महाकविः दीक्षितः
"चतुरध्यायीरूपं कलहंसव्यञ्जनं जगन्मातुः।
अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे।।106।।"
वाग्रूपिणीं देवीं तथा अर्थस्वरूपिणं परमेश्वरं तदुभयरूपात्मकपरब्रह्मस्वरूपात्मिकां श्रीमीनाक्षीमुपासे इति
हंसपदेन वैराग्यं शशीति चन्द्रपदेन ज्ञानं च द्योतयति। एवं
मीनाक्षीदेवीदर्शन-श्रवण-वन्दन-चिन्तन-कीर्तनादि स्वकीये
अक्षिणी यथाधिकारं विनियुज्य आनन्दसागरस्तवे स्वयं निमज्य तत्पठितृवक्तृश्रोतॄनपि मज्जयति नीलकण्ठदीक्षितः।।

समापनम् –
कण्णप्पनायनारिति स्वभक्ताय नेत्रदानं कृत्वा तं
परमशिवोऽन्वगृह्णात्। कूरत्ताழ்वान् इति विष्णुभक्ताग्रेसराय
नयनदानेन तमनुजग्राह काञ्चीवरदराजः। नीलकण्ठदीक्षिताय
नयनप्रदानं कृत्वा श्रीमीनाक्षीदेवी नामसार्थक्यं प्राप। अनेन आनन्दसागरस्तवालोढनेन निमज्जनेन च अस्माभिः ज्ञायते
यत् श्रीमीनाक्षीदेवीकृपापात्रा भूत्वा वयं सर्वे संसारसागरात्
सन्तारिताः भवेम इत्युक्त्वा,

अप्राकृतीं मृदुलतामविचिन्त्य किञ्चित्
आलम्बितासि पदयोः सुदृढं मया
यत्।
तन्मे
भवार्णवनिमज्जनकातरस्य
मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ।।59।।
इति च मह्यं दत्तावसरेभ्यः
सर्वेभ्यः धन्यवादं सादरं समर्प्य विरमामि।।