भूमिका –
संस्कृतवाङ्मये
स्तोत्रग्रन्थानामाकारा ह्यनन्ता भवन्ति।
श्रुति-स्मृति-इतिहास-पुराण-आगमादिषु निस्सरन्ती भक्तिरूपा कीर्तिकलिता
स्तुतिभागीरथी महाकाव्यादिकालादारभ्य गीतिकाव्यादिकालपर्यन्तमविरता
अविच्छिन्न
रूपतया सांप्रतमपि प्रवहन्ती भासते। अग्नि-इन्द्र-वरुण-सवितृ-रुद्र-मरुत्
प्रभृति वैदिकदेवतानां, महाविष्णु-परमशिव-गणपति-कार्तिकेयादि दैवतानां
भार्गवी-भवानी-भारतीप्रभृति देवीनां स्तोत्राणां संख्या असंख्येति नात्र
शाङ्क्यम्। एतादृशस्तोत्रेषु श्रीमन्नील कण्ठदीक्षिताख्य महाकवेः स्तोत्ररत्नमेकं
विलसन्ति आनन्दसागरस्तवो नाम।।
आनन्दसागरस्तवाख्ये स्तोत्रग्रन्थेऽस्मिन्
श्रीमद्दीक्षितेन्द्रः श्रीमीनाक्षीदेव्यै चराचरजनन्यै स्वात्मार्पणं शरणागतिरूपेण
करोति स्म। श्रीमद्दीक्षितेन्द्रस्य कवित्वं तावत्, तिरुमलैनायकमहाराजेन किमर्थं
काकः काक काक इति शब्दायते इति पृष्टेषु सभाकविषु,
सीतेव राम इव क्षमया दयया
भुवन इह का कः।
इत्यात्मघोषवचसा
तज्जातीयानां तथैव संज्ञाऽऽसीत्।। इति
श्लोकात्मकोत्तरेणानुमीयते तथा अनुमन्यते च।।
विवरणम् –
तमिल्नाडु राष्ट्रे विरिञ्चिपुरसमीपस्थे
अडैयपल्लमिति ग्रामवर्ये श्रीमदाचार्यदीक्षितस्य पौत्राः, श्रीरङ्गराजदीक्षितस्य
पुत्राः, श्रीमदप्पय्य दीक्षिताः इति महनीयाः अवतीर्णाः। तेषां कनिष्ठसोदरस्य
श्रीमद् आच्चान्दीक्षितस्य पुत्रवर्यः श्रीमन्नारायणदीक्षितः अवततार। तस्य पत्नी
श्रीभूमादेवी आसीत्। एतयोः द्वितीयः कुमारः महाकविनीलकण्ठ दीक्षितः। गते षोडशे शताब्दे विजयनगरसाम्राजायं बहुधा
प्राप्तभेदमितस्ततः तमिल्नाडु राष्ट्रे मधुरा नगरे तिरुमलैनायकस्य नेतृत्वे एकं
प्रतिष्ठामगात्। तस्य सभायां महाकविनीलकण्ठदीक्षितः आस्थानपण्डितस्तथा
मन्त्रिवर्यश्च अभवत्। एषः महाकविनीलकण्ठ दीक्षितः स्वस्मिन् शैशवे
स्वपितामहस्याग्रजस्य श्रीमदप्पय्यदीक्षितस्य
अनुग्रहपात्रभूतोऽभवत्।
स्वपितामहस्य ज्येष्ठस्य माहात्म्यमित्थं –
अतिगंभीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम्।
अविरलतरङ्गसङ्कुलमवैमि
विज्ञानसागरं महताम्।। इति वर्णयति।।
अयं महाकविः बाल्ये एव नलचरितं,
गङ्गावतरणमिति काव्यद्वयं ग्रथितवान्।
स्वकीये गङ्गावतरणे अमुं विषयमधिकृत्य
कालं जेतुमुपायौ द्वौ
कलिकल्मषसंप्लुतम्।
कथा वा निषधेशस्य काशी वा
विश्वपाविनी।। इति
श्लोकेन गङ्गां गन्तुं निश्चितवान्, नलचरितरचनं कृतवानिति उल्लिलेख।।
महाकविरयं मुकुन्दविलासः, रघुवीरस्तवः, नलचरित्रम्, गङ्गा
ऽवतरणम्, वैराग्यशतकम्, शिवलीलार्णवम्, नीलकण्ठविजयचम्पूः, सभारञ्जनशतकम्, कलिविडम्बनम्, शिवोत्कर्षमञ्जरी, शिवतत्त्व रहस्यम्, शान्तिविलासः, आनन्दसागरस्तवः
इत्यादि महाकाव्य, खण्डकाव्य, चम्पूः, स्तोत्र, कदम्बादि काव्यवैचित्र्येण सहृदयहृदया- ह्लादमधुनापि कुर्वन्नस्ति।।
एतेषु ग्रन्थेषु आनन्दसागरस्तवः अमुना
महाकविना श्रीनीलकण्ठ दीक्षितेन स्वस्य अन्तिमकाले ग्रथितोऽभवत्। कदाचित्
तिरुमलैनायकः मधुरापतिः मलयध्वजपाण्ड्यस्य कुमार्याः श्रीमीनाक्षीदेव्याः
दिव्यमन्दिरे नूतनमण्डपमेकं प्रतिष्ठापयितुमैच्छत्। तदात्वे शिल्पशास्त्रनिपुणः
कश्चित् स्थपतिः मण्डपनिर्माणसमापने महाराजस्य तिरुमलैनायकस्य प्रतिमां तथा तस्य
पट्टमहिष्याः प्रतिमां च प्रकल्पनसमये वारं वारं भिन्ना जाता। तेन दुःखितः स्थपतिः
नीलकण्ठदीक्षितोक्तेन सामुद्रिकाशास्त्राधारेणैव इत्थं जाता इति ज्ञात्वा समाश्वसितः।
एकदा सपत्नीकः तिरुमलैनायकः नूतनमण्डपनिर्माणे शिल्पिनः क्रियाकौशलं दिदृक्षुस्तत्रागतः।
पट्टमहिष्याः प्रतिमायां तस्याः ऊरुस्थले वर्तमानं भिन्नं दृष्ट्वा चकितः। विचार्यमाणे
नीलकण्ठदीक्षितोक्तसामुद्रिका- शास्त्रानुसारं शिल्पिना कृतमित्थमिति ज्ञातवान्। महत्कोपाकुलः
महाराजा राजसभां प्रतिनिवृत्य, नीलकण्ठदीक्षितमानय
इति भटमेकं प्राहिणोत्। सोऽपि भटः राजाज्ञां शिरसि निधाय नीलकण्ठदीक्षितगृहं प्राप्तवान्।
तदात्वे पूजागृहे श्रीमीनाक्षीदेव्याराधनतत्पराय नीलकण्ठ दीक्षिताय राजाज्ञा निवेदिता।
ज्ञानदृष्ट्या सर्वं ज्ञातेन नीलकण्ठदीक्षितेन तदैव श्रीमीनाक्षीदेव्याराधननीराजनकर्पूरहारत्या
स्वदृष्टियुगलहीनः स्वयं कारितः। अनन्तरं, तस्मै भटाय, "राज्ञा दास्यमानं
दण्डं स्वयं स्वीकृतवनिति महाराजाय निवेदय" इत्युक्त्वा तं प्रेषयामास। कलिमलेन मोहितं राजानं विचिन्त्य, नीलकण्ठदीक्षितः वारं वारं श्रीमीनाक्षीदेवीं बहुधा प्रणम्य, समर्च्य, "आनन्दसागरस्तवः" इति स्तोत्ररत्नं तदैव विरच्य श्रीमीनाक्षीदेवीं प्रस्तूय दृष्टिहीनाय
स्वस्मै नेत्रसात्कुरु इति प्रार्थ्य, श्रीमीनाक्षीदेव्याः
कृपाकटाक्षेण ईक्षणपुण्य भाग्यमलभत। एतज्ज्ञात्वा तिरुमलैनायकः भृशं दुःखितः नीलकण्ठस्य सविधे क्षमामयाचत, तथा
श्रीमीनाक्षीदेवीमुद्दिश्य स्तवं चकर्तुं प्रार्थयत।।
विज्ञापनार्हविरलावसरानवाप्त्या
मन्दोद्यमे मयि दवीयसि विश्वमातुः।
अव्याजभूतकरुणापवनापविद्धान्यन्तः
स्मराम्यहमपाङ्गतरङ्गितानि।।1।।
इति प्रथमश्लोके बाह्यचक्षुरिन्द्रियहीनः महाकविः ज्ञानचक्षुषा
श्रीमीनाक्षीदेव्याः अपाङ्गतरङ्गितानि अन्तः स्मरामि इति सूचयति। नवविधभक्तिषु नवमा आत्मनिवेदनमिति शरणागतिः। आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा।।
विज्ञापनार्हविरलावसरानवाप्त्या
मन्दोद्यमे मयि दवीयसि विश्वमातुः।
अव्याजभूतकरुणापवनापविद्धान्यन्तः
स्मराम्यहमपाङ्गतरङ्गितानि।।1।।
इति प्रथमश्लोके बाह्यचक्षुरिन्द्रियहीनः महाकविः ज्ञानचक्षुषा
श्रीमीनाक्षीदेव्याः अपाङ्गतरङ्गितानि अन्तः स्मरामि इति सूचयति। नवविधभक्तिषु नवमा आत्मनिवेदनमिति शरणागतिः। आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा।।
आत्मनिक्षेपकार्पण्ये
षड्विधा शरणागतिः।।
इति वेदान्तदेशिकस्य वचनानुसारं नीलकण्ठदीक्षितः
आत्मैव भार इति तं त्वयि यो निधत्ते
सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः।
विश्वत्र सात्र (विश्वस्य साक्षिणि) तु (स)विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गि।।
प्रपत्तेः अङ्गेषु आनुकूल्यसङ्कल्पः तथा प्रातिकूल्यवर्जनमित्यादि
हीनः स्वयमलसः भूत्वा, विश्वासमात्रयुक्तः त्वयि आत्मभारं
समर्तयामि स्म इति वदति। एतत्पूर्वं, एवं गतस्य मम सांप्रतमेतदर्हं
इति श्लोके शरणागतेरङ्गं कार्पण्याख्यं निवेदयति। अनन्तरं,
न ज्ञायते मम हितं नितरामुपाये
दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि।
तत्त्वामनन्यशरणः शरणं प्रपद्ये
आत्मैव भार इति तं त्वयि यो निधत्ते
सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः।
विश्वत्र सात्र (विश्वस्य साक्षिणि) तु (स)विलक्षणलक्षणा या विस्रम्भसम्पदियमेव समस्तमङ्गि।।
प्रपत्तेः अङ्गेषु आनुकूल्यसङ्कल्पः तथा प्रातिकूल्यवर्जनमित्यादि
हीनः स्वयमलसः भूत्वा, विश्वासमात्रयुक्तः त्वयि आत्मभारं
समर्तयामि स्म इति वदति। एतत्पूर्वं, एवं गतस्य मम सांप्रतमेतदर्हं
इति श्लोके शरणागतेरङ्गं कार्पण्याख्यं निवेदयति। अनन्तरं,
न ज्ञायते मम हितं नितरामुपाये
दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि।
तत्त्वामनन्यशरणः शरणं प्रपद्ये
मीनाक्षि विश्वजननीं जननीं
ममैव।।32।।
इति
श्लोके शरणं प्रपद्ये इति उक्त्वा शरणागतिं विज्ञापयति।