Tuesday, 30 June 2020

मन्दिरं सहोदराणाम्




         Jagannath Puri & Konark Sun Temple - Vasantkamal ToursVasantkamal ...


     अस्मिञ्जगतितले अस्माकं भारतदेशः पुण्यभूमिरिति सर्वैः ज्ञातपूर्व एव। एतादृशे अस्मद्देशे पुरी इति अपरनामकं जगन्नाथक्षेत्रमिति इति दिव्यक्षेत्रमस्ति। अत्र विद्यमानं मन्दिरं सर्वैः आराध्यमानं स्तूयमानं च भवति। तद्वैभवं किञ्चित्  जानीमः
1. एतस्मिन् मन्दिरे भगवतः श्रीभद्रस्य कृष्णस्य, तस्य ज्येष्ठसहोदरस्य भगवतो बलभद्रस्य, तस्य सहोदर्याः सुभद्रायाश्च मूर्तयः सन्ति॥
2. महाराजस्य वसुदेवस्य प्रथमायां पत्न्यां देवक्यां      पुत्रत्वेन भगवान् श्रीकृष्णः अवतीर्णः। महाराजस्य वसुदेवस्य द्वितीयायां भार्यायां रोहिण्यां भगवान् बलरामः ज्येष्ठपुत्रत्वेन तथा भगवती योगमाया इति विष्णुमाया पुत्रीत्वेन जाता॥
3. एतेषां सहोदरी-सहोदराणां कृते एव एतस्मिन् भुवनमण्डले एकमेव मन्दिरम् अस्ति। न केवलमेतदेव वैशिष्ठ्यम् ,अपि तु एतेषां मूर्तयः काष्टखण्डैः निर्मिताः भवन्ति॥
4. कंसस्य सहोदरी देवकी आसीत्। किन्तु कंसे सहोदरी-प्रेमा नासीत्। तद्दोषदूरीकरणार्थं भगवान् सहोदर-सहोदरी-प्रेमभावं तथा बान्धव्यम् इत्थं प्रकटी-कृतवान्॥
5. अस्मिन् मन्दिरे श्रीकृष्णः, नील-मा-धवः इति अर्थात् नीलः इत्यनेन श्रीकृष्णभद्रः इति, मा इत्यनेन सुभद्रा इति, तथा धवः इत्यनेन बलभद्रः इति च सर्वैः वन्द्यमानः विराजते॥
6. अद्यापि अस्माकं भारतदेशे रक्षावन्धनं, भाई धूज् इत्यादयःमहोत्सवाः एतस्मिन् क्षेत्रे महता कोलाहलेन वैभवेन च अनुष्ठीयन्ते। एतत् स्मृत्वा, पुरा चित्तूरु राज्ञी कर्णवती ह्यूमायून् इति मुहम्मदीयनृपाय रक्षाबन्धनं प्रेषितवती इती प्रथा॥

Monday, 29 June 2020

ऋतूणां माहात्म्यम्





संस्कृतसाहित्यशास्त्रे ऋतवः मुख्यस्थानं वहन्ति। ऋतवः भारतीयमतेन षट् भवन्ति। ताः ग्रीष्म-वर्ष-शरद्-हेमन्त-शिशिर-वसन्त इति षडृतवः। श्रीमद्रामायणे आरण्यकाण्डे हेमन्त-शिशिरर्त्वोः तथा किष्किन्धाकाण्डे ग्रीष्म-वसन्तर्त्वोः वर्णनं कृतमद्भुतरूपेण। तासां ऋतूणां वैभवं किञ्चिदनुभवामः -
1. ग्रीष्मर्तुः (April 15 to June 14)- अस्मिन् समये सूर्यः प्रचण्डरश्मिभिः देदीप्यमानः उदेति।  मानवाः पशवः सर्वे जलाशये अवगाहनकाङ्क्षिणः दृश्यन्ते। मार्ताण्डस्य आतपेन नितरां पीडितः सर्पः कश्चित् अवाङ्मुखो भूत्वा अज्ञानेन मयूरस् अधः छाया इति मत्वा निषीदति॥
2. वर्षर्तुः (June 15 to August 14)- नवसलिलविषेकात् वनान्तः समन्तात् जातपुष्पैः कदम्बवृक्षैः मुदितः इव, वायुना चालितशाखैः वृक्षैः नृत्य-तीव, केतकीपुष्पाणां श्वेतवर्ण-मकरन्द-सूचिभिः हसितः इव दृश्यते॥
3. शरदृतुः (August 15 to October 14)- कुसुमसङ्गात् वायुः शीतः वाति। विगतमेघाः दिग्विभागाः द्रष्टुं मनोहरा भवन्ति। जलाशयाः कलुषहीनाः, धरित्री तावत् शोषित-पङ्कयुक्ता, विमलकिरणसहितेन चन्द्रेण तथा तारागणैः आकाशः रमणीयः भवति॥
4. हेमन्तर्तुः (October 15 to December 14)- नगराणां तथा ग्रामाणां सीमान्तराणि व्रीहीणां शालिभिः युकतानि, मृगाङ्गनाबृन्दैः विभूषितानि, तत्र तत्र क्रौञ्चपक्षिभिः निना-दितानि  द्रष्टॄणां नेत्राह्लादनं जनयन्ति
5. शिशिरर्तुः (December 15 to February 14) - अस्मिन् समये, योषितः स्वकीयेषु गृहेषु प्रभाते उत उषःकाले कनक-कमलकान्ताः वदनबिम्बाः, चारुताम्राध-रोष्ठाः, श्रवणतट-निषक्ताः पाटलोपान्तनेत्राः, अंस-संसक्त-केशाः श्रीमहा-लक्ष्मीरिव विराजन्ते
6. वसन्तर्तुः (February 15 to April 14)- अस्मिन् समये वृक्षाः पुष्पभरिताः, जलाशयाः पद्मभरिताः, स्त्रीयः काम-वशगाः, वायुः सौगन्धयुक्तः, प्रदोष-समयाः सुखमयाः, दिवसाः च रमणीयाः इति एकैकशः सर्वे चारुतराः चारु-तमाश्च वर्तन्ते

Sunday, 28 June 2020

वीणायाः वैशिष्ठ्यम्

Saraswati veena - Wikipedia
     
सङ्गीतशास्त्रे वीणायाः स्थानं महत्त्वपूर्णं भवति। ततम्,                अवनद्धम्, घनम्, सुषिरम् इति सङ्गीतशास्त्रे वाद्यं चतुर्विधं भवति। तेषु वाद्येषु ततरूपवाद्यं वीणावाद्यं भवति। तदधिकृत्य किञ्चित् जानीमः॥
1. वीणा तावत् सरस्वतीवीणा, रावणवीणा, अम्बिकावीणा, बाणवीणा, काश्यपवीणा, (ब्रह्म)स्वयंभूवीणा, किन्नरी, (शिव)पिनाकी, भोल्लवीणा, मनोरथा, कौमारी, अणि-बाणि, (विपञ्ची)अधिकचित्रिका, नटनागरिका, कुम्भका, मल्लरी, यकुलाष्टी, घोषावती, तन्त्रीसागरः, अम्बुजवीणा, नारद-वीणा(महती), तुम्बुरुवीणा,  इत्यादयः अनेकाः॥
2. वीणावाद्यं पनसवृक्षखण्डैर्निर्मीयते। तस्मिन् पनसदारु-खण्डस्य उपरि जतुकया स्वरस्थानं चतुर्विंशतिभागाः पित्तललोहखण्डैः विविधान्तरात्मकया विभक्ताः भवन्ति। तथा वादकस्य पार्श्वभूते वीणावाद्यस्य वामभागे श्वेतवर्ण-चिह्नानि अङ्कितानि यानि स्वरस्थानबोदकानि सन्ति॥
3. वीणावादनप्रकाराः वाम-दक्षिण-उभयहस्तव्यापाराः त्रयः॥

Saraswati veena - Wikipedia Lord Shiva Playing Veena | Shiva, Mahakal shiva, God shiva
4. वीणावादनतत्परा वाणी श्रीसरस्वतीदेवी "या कुन्देन्दु-तुषारहारधवला" इत्यादिभिः श्लोकैःसर्वैः पूज्या विलसति।
वीणावादनतत्परो देवः श्रीमेधादक्षिणामूर्तिः गुरवे सर्व-लोकानाम् " इत्यादिभिः श्लोकैःसर्वैः पूज्यो विकसति।
शिवभक्तः रावणः सामवेदगानयुक्तेन वीणावादनेन परमेश्वरं सन्तोषय्य अनेकवरान् प्राप्य ईश्वरपदम् अलङ्कृतवान्॥ 

Origin of Ravana's Own Violin- Ravanhatha - NYK Daily

Saturday, 27 June 2020

दशविधरूपकेषु प्रहसनम्



    संस्कृतभाषायां दृश्यकाव्यारूपाणि नाटकानि बहूनि भवन्ति तानि तावत् सामान्यतः नाटकानि इति उच्यमा-नान्यपि  वस्तुतःरूपकाणि इत्येव वक्तव्यानि। तद्रूपकाणि
          नाटकं   सप्रकरणं    भाणः  प्रहसनं  डिमः।
व्यायोग-समवाकारौ वीथ्यङ्केहामृगाः दश॥
इति दशविधानि भवन्ति। तत्र चतुर्थविधं प्रहसनमधिकृत्य किञ्चित् पश्यामः॥
1. प्रहसनम् इति रूपकं शुद्धं सङ्कीर्णमिति द्विविधं भवति।
2. प्रहसने वस्तु कवेः काल्पनिकमनुसृत्य उत्पाद्यं भवति। धीरललितात्मकाः नीचपात्रभूताः तापस-सन्नयासी-विटाद्याः नेता भवितुमर्हन्ति। हास्यरसःप्रधानरसो भवति॥
3. शुद्धप्रहसनस्य उदाहरणं भवति शशिविलासः इति। सङ्कीर्णविधस्य बोधायनकविप्रणीतं भगवदज्जुकी-यम्, महेन्द्रवर्मपल्लवभूपकृतं मत्तविलासप्रहनम् इति द्वे अतिप्रसिद्धे॥
4. इतोऽपि गङगाधरकविकृतं लटकमेलकम्, जगदीशकृतं हास्यार्णवम्, गोपीनाथचक्रवर्तिकृतं कौतुकसर्वस्वम् इत्यादीनि कानिचन प्रहसनानि सन्ति॥

Friday, 26 June 2020

शुक्रवासरमहिमा


      
Image result for Image of Sukra star
   सप्तवासरेषु षष्ठः वासरः शुक्रवासरः। नवग्रहेषु शुक्राचार्यः सूर्यादनन्तरं वयसा ज्येष्ठः। भृगुमहर्षेः पुत्रः शुक्राचार्यः। एषः दैत्यानाम् अर्थात् असुराणाम् आचार्यः।
एतेन कृतं शास्त्रं शुक्रनीतिः इति कथ्यते। आङ्ग्लभाषायां वीनस् इति कथ्यते। एतस्य अपरनाम "कवीनाम् उशना कविः" इति श्रीमद्भगवद्गीतावचनानुसारम् उशना इत्यपि श्रूयते। भगवान् परशुरामः भृगोः अंशः इति ज्ञायते, एतद्वासरस्य महिमां तावत् किञ्चित् जानीमः॥
1. महर्पिभृगोः श्रीमहालक्ष्मीः पुत्रीत्वेन जाता। अतः श्रीमहालक्ष्मीः भार्गवी इत्यपि च सम्मान्यते॥
                    Mahalakshmi homam |Homam | Puja | Pandit Purohit for Havan ...
2. श्रीमहालक्ष्म्याः प्रीतिकरः वासरः एषः शुक्रवासरः। "भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम्" इति शुक्रवासरे श्रीमहालक्ष्मीशतनामपठनेन  कोऽपि नरः एतस्मिन् भूतले कुबेरः इव अष्टैश्वर्यम् अवाप्नोति॥
3. शुक्रग्रहस्य अधिदेवता-प्रत्यधिदेवतारूपेण श्रीमद्रङ्ग-नाथः स्तूयते। अतः शुक्रग्रहप्रीत्यर्थं श्रीमद्रङ्गनाथः सर्वैः उपास्यते॥
श्रीमत्या गोदादेव्या "वेळ्ळि एषुन्दु व्याषम् उरङ्गिट्रु" इति कथनेन अर्थात् "गुरुवासरादनन्तरं शुक्रवासरः आगतः" इत्यनेन अवगम्यते यत् सामान्यतः सर्वैः मानवैः जीवने शुक्रग्रहेण शुभोदयः(Prosperity) प्राप्यते (विडिवेळ्ळि)इति॥


Image result for Image of Sukra star

A SHORT TREATISE ON SANSKRIT PROSODY - Part I

       PROSODY means the study of poetry.  In Sanskrit it is called Chandas or Vruttam.     The earliest and most important work in Sanskrit...